________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
क्षीरिणीं प्रति जाता मे श्रद्धा तामच मे पच । नति तस्य सा भार्या पेचे तां क्षीरिणी तदा ॥ ४ ॥
तस्थौ चाभ्यंतरे गुप्तं स ठक्कः शयनं गतः । दृष्ट्वा प्राघूर्णकं कंचिदत्रासौ मा व्रजेदिति ॥ ५ ॥ तावत्तस्य मुहूर्धूर्तोऽन्यठक्कस्तत आययौ ।
क ते भर्तेति पप्रच्छ स च तां तस्य गेहिनीम् ॥ ६ ॥
साप्यदत्तोत्तरा तस्य प्राविशत्पत्युरन्तिकम् । आयाय मित्रागमनं भार्यां सोऽपि जगाद ताम् ॥ ७ ॥ उपविश्येह रुदती पादावादाय तिष्ठ मे । भर्ता मे मृत इत्येव वेदश्व सुहृदं मम ॥ ८ ॥ ततो गतेऽस्मिन्नावाभ्यां भोक्तव्या क्षीरिणी सुखम् । इत्युक्ता तेन तावत्सा प्रवृत्ता रोदितुं तथा ॥ ९ ॥ तावत्प्रविश्य सोऽपृच्छत्किमेतदिति तां सुहृत् । भर्ता मृतो मे पश्येति तयोक्तः स व्यचिन्तयत् ॥ १० ॥ क पचन्ती मया दृष्टा सुखिता श्रीरिणीमिमाम् । काधुनैव विपन्नोऽयमेतद्भर्ता रुजं विना ॥। ११ ॥ नूनं मां प्राघूर्णिकं दृष्ट्वा कृतमाभ्यामिदं मृषा । तन्मया नैव गन्तव्यमित्यालोच्योपविश्य सः ॥ १२ ॥ धूर्तो हा मित्र हा मित्रेत्याक्रन्दंस्तत्र तस्थिवान् । श्रुताक्रन्दाः प्रविश्यात्र बान्धवा मृतवत्स्थितम् ॥ १३ ॥ श्मशानं मौनठकं ते नेतुमासन्समुद्यताः । उत्तिष्ट बान्धवैर्यावदेतैर्नीत्वा न दासे ॥ १४ ॥ इत्युपश्ववदत्कलमूले भार्या तदा च तम् । मैवं शठोऽयं ठक्को मे क्षीरिणीं भोक्तुमिच्छति ॥ १५ ॥ नोत्तिष्ठामि तदेतस्मिन्नगतेतः प्रिये यदि । प्राणेभ्योऽप्यन्नमुष्टिर्हि मादृशानां गरीयसी ॥ १६ ॥
For Private and Personal Use Only