SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। धूर्तानां कौशलं छद्म तेनामी छलयन्ति यत् । येन च्छलेन जहते धियं ते मूर्खशेखराः ॥ १॥ तथा चादाय याज्येभ्यश्छागं कोऽपि व्रजन्दुिजः । बहुभिर्ददृशे मार्गे धूर्तेश्छागं जिहीर्षुभिः ॥ २ ॥ एकश्चैतेभ्य आगत्य तमुवाच ससंभ्रमम् । ब्रह्मकथमयं स्कन्धे गृहीतः श्वा त्वया त्यज ।। ३ ।। सच्छृत्वा तमनादृत्य स द्विजः प्राक्रमद्यदा । ततोऽन्यौ द्वावुपेत्याने तद्वदेव तमूचतुः ॥ ४ ॥ ततः ससंशयो यावद्याति छागं निरूपयन् । तावदन्ये त्रयोऽभ्येत्य तमेवमवदशठाः ॥ ५ ॥ कथं यज्ञोपवीतं त्वं श्वानं च वहसे सहम् । मूनं व्याधो न विप्रस्त्वं हंस्यनेन शुना मृगान् ॥ ६ ॥ तच्छ्रुत्वा स द्विजो दध्यौ नूनं भूतेन केनचित् । भ्रामितोऽहं दृशं हत्वा सर्वे पश्यन्ति किं मृधा ॥ ७ ॥ इति विप्रः स तं हित्वा छागं स्नात्वा गृहं ययौ । [५५]धूर्ताश्च नीत्वा तमजं यथेच्छं समभक्षयन् ॥ ८ ॥ इति मूर्खशेखराभिधं पञ्चषष्टितमं कुसुमम् । [६६] प्राणान्ददति नो द्रव्यमानं क्षुद्राः कथंचन । तथा च शृणतेमां भोः कथां कार्पण्यचित्रिताम् ।। १ ।। कदर्यः कोऽप्यूभूत्वापि मूर्खष्ठक्को महाधनः। समायः स सदा भुंक्त सक्तुंल्लवणवर्जितान् ॥ २ ॥ अन्यस्यान्नस्य बुबुधे नैवास्वादं कथंचन् । . एकदा प्रेरितो धात्रा स भार्यामब्रवीनिजाम् ॥ ३ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy