SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। तमेकदा सुखासीनं लिखित्वाक्षोटपत्रिकाम् । स कायस्थेऽर्पयामास मुद्रां कुर्विति चार्थितः ॥ ३ ॥ विलोक्याक्षोटसाहस्रं किं दास्ये ते मतिः कुतः । डौम्बिन्या प्रणयो' भाति तैलमादीयतां त्वया ॥४॥ तैलार्थ तेऽप्यमी ग्राह्या वद किं दूरधावनात् । यथैच्छं तैलमादत्स्व न ते किश्चिद्भयं मम ॥५॥ इति श्रुत्वा समाश्वस्योपविष्टोऽजलिभाग्द्रुतम् । आलिख्य तैलपत्री स समर्पयदथाञ्जसा ॥ ६ ॥ त्रिंशद्रोणमिता दृष्टानयासृत्या चरस्व भोः । इत्युक्त्वाश्वर्पयन्मुद्रां नयेत्युक्त्वा निचिक्षिपे ॥ ७ ॥ इति संख्याविभ्रमराजमूर्खाभिधं कुसुमं षष्टितमम् । [६१] ध्रुवमल्पधियां द्रव्य(५४)सपदोषाविमोहिनी'। ययैते वञ्चायित्वा स्वान्परं न्यस्तं विधाय तत् ॥ १॥ स्वमिहामुत्र गर्दाहं कृत्वाकिञ्चनतां गताः । स्ववृत्तं गोपयन्त्येव मरणान्तमिति स्थितिः ॥२॥ तथा च कश्चिद्धीक्षुद्रः संचित्य द्रविणं बहु । पित्रादिभ्योऽथ कस्मिंश्चिन्मित्रे विश्वस्तसंविदा ॥ ३ ॥ संस्थाप्य नैव वाच्यं ते पितृभ्रात्रादिसंनिधौ । धनमस्येति नियमं कारयामास तं पुनः ॥ ४ ॥ तत्राप्यविश्वस्तमतिर्मा शङ्कीति च तं पुनः । स मुद्रात ददौ पत्रं मयास्माद्धृतं धनम् ॥ ५॥ एतावदिति पित्रादीन्ज्ञापयामास संज्ञया । इत्थं गते प्रहृष्टोऽसौ वंचिताः स्वपरे मया ॥ ६ ॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy