SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। पारं प्राण्याम्बुधेस्तीरे दृष्ट्वावर्तादि वारिणि । मजयामास सोऽबुद्धिनदीस्तांस्ततत्र सः ॥ ४ ॥ पृष्टः स तैः कथं कुत्र चोक्त्वा तद्वत्तमादृतः । हाससापेत हर्षाय मूढजन्म मनीषिणाम् ॥ ५॥ इति मूर्खजन्मसाफल्याभिधमष्टपञ्चाशत्तम कुसुमम् । [५९] न राज्ञां प्रत्ययो ग्राह्यो निग्रहे वाप्यनुग्रहे । प्रायो विमूढमतयस्ते भाग्योदयजीविनः ॥ १ ॥ तथा च कश्चिद्धृत्यं स्वं हृतमांसं महानसात् । विलोक्याज्ञापयामास देहादेतन्मितं पलम् ॥ २ ॥ कर्त्यतामिति देतेद्वः' पलपंचक उत्कृते । दृष्ट्वा तं पतितं भूमौ क्रन्दन्तं चाप्यसौ पुनः ॥ ३ ॥ जातानुकम्पो द्वाःस्थं तं प्राह पश्चपली द्रुतम् । देह्यस्मै चेन्न तुष्येत तदतोप्यधिकं पलम् ॥ ४ ॥ किं जीवति शिरच्छिन्नो दत्तैरपि शिरःशतैः । विमृष्य दास्य इत्युक्त्वा गत्वा क्षत्ता हसदहिः ।। ५॥ तं समाश्वास्य वैद्येभ्यः कृत्तं मांसं व्यचीकलत् । एवं मूढप्रभुर्वेत्ति निग्रहं नाप्यनुग्रहम् ॥ ६ ॥ इति मूढप्रभुकथनाभिधमेकोनषष्टितमं कुसुमम् । [६०] प्रायेण मूढमतयो राजानः प्रभवन्ति हि । प्रभावयुक्तमतिमानराजा खलुः सुदुर्लभः ॥ १ ॥ तथा च श्रूयतां भाग्यपुजोऽभूत्कश्चिदीश्वरः । यस्यौदार्य दिगन्तेषु साम्प्रतं च स्थितिं गतम् ॥ २॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy