SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतः। तथा च श्रुण्वतः पुंसो बाह्यार्थस्य च कस्यचित् । अभ्यन्तरे गुणान्कश्चिच्छशंस सुजनाग्रतः ।। २ ॥ तदा चैकोऽब्रवीत्तत्र सत्यं स गुणवान्सखे । किंत द्वौ तस्य दोषौ स्तः साहसी क्रोधनश्च यत् ॥ ३ ॥ इति वादिनमेवैनं बहिर्वर्ती निशम्य सः । पुमान्प्रविश्य सहसा वाससावेष्टयद्गले ।। ४ ।। रे जाल्म साहसं किं मे क्रोधः कश्च मया कृतः । इत्युवाच च साक्षेपमसौ क्रोधाग्निना ज्वलन् ॥ ५ ॥ ततो हसन्तस्तत्रान्ये तमूचुः किं ब्रवीत्यदः । प्रत्यक्षदर्शितक्रोधसाहसोऽपि भवानिति ॥ ६ ॥ इति साहसिमूर्खाभिधं पञ्चपञ्चाशत्तमं कुसुमम् । [५६] (५३ अ )मौर्यमेतन्मनुष्याणामस्तु स्वपरहानिदम् । हिताय च भवत्येतन्महत्सु विहितस्थिति ॥ १॥ अत्रास्त्याभाणकं लोके मूढानां चेन्न मातरः । प्रसूयन्ते प्रवीणानां गेहाः स्युः पूरिताः कथम् ॥ २॥ तथा च कस्यचिद्राज्ञः कन्याभूदतिरूपभाक् । स वर्धयितुकामस्तामतिस्नेहेन सत्वरम् ॥ ३ ॥ वैचानानाय्य नृपतिः प्रीतिपूर्वमभाषत । सदौषधप्रयोगं तं कंचित्कुरुत येन मे ॥ ४ ॥ सुतैषा वर्धते शीघ्रं सद्भत्रे च प्रदीयते । तश्छ्रुत्वा तेऽब्रुवन्वैचा उपजीवयितुं प्रभुम् ॥ ५॥ अत्यौषधमितो दूरदेशात्तत्रापि लभ्यते । बानयामश्च यावत्तत्तावदेषा सुता तव ॥ ६॥ अश्वा स्थापनीयैषा विधानं तत्र हीदृशम् । इत्युक्त्वा स्थापयामास च्छन्ना ते तां नृपात्मजाम् ॥७॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy