SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः आबाल्याब्रह्मचारी मे पिता नान्योऽस्ति तत्समः । कुतस्त्वमिति पृष्टस्तैर्माता वेत्तीति संवदन् ॥२॥ मुखमशंकबद्धं ते विधाय हसितः स तैः । अहो नैर्लज्यमेतेषामिति तां सोऽप्यलज्जयत् ।। ३ ॥ इति व्याघातिमूर्खाभिधं त्रयःपञ्चाशत्तमं कुसुमम् । [५४ ] बभूव नाम गणकः कश्चिद्विज्ञानवर्जितः । सभार्यापुत्रसहितः स्वदेशे वृत्त्यभावतः ॥ १ ॥ गत्वा देशान्तरं सोऽथ मिथ्याविज्ञानमात्मनः । कृतकप्रत्ययेनार्थपूजामाप्तुमदर्शयत् ॥ २ ॥ परिष्वज्य सुतं बालं तत्र सर्वजनाग्रतः । रुरोद पृष्टश्च ५२ब]जनैरेवं प्रायो जगाद सः ॥ ३ ॥ भूतं भव्य भविष्यच्च जानेऽहं तदयं शिशुः । विपत्स्यते च दिवसे सप्तमे तेन रोदिमि ॥ ४ ॥ इत्युक्त्वा तत्र विस्माय्य लोकं प्राप्तेऽहि सप्तमे । प्रभात एव सुप्तं तं स संव्यापादितवान्सुतम् ॥ ५॥ दृष्ट्वा च तं मृतं बालं संजातप्रत्ययैर्जनैः । पूजितो धनमासाथ स्वदेशं स्वैरमाययौ ॥ ६ ॥ लोकेऽर्थलोभान्मिथ्यैव विज्ञानज्ञापनेप्सवः । मूर्खाः पुत्रमपि नन्ति रज्येनैतेषु बुद्धिमान् ॥ ७ ॥ इति धनलोभमूर्खाभिधं चतुष्पश्चाशत्तमं कुसुमम् । [५५] केचिच्च बालिशाः प्राज्ञमानिनो जगतीतले । - यैः सुव्यक्तोऽपि दोषः स्वः कौशलालेव बुध्यते ॥ १॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy