________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
अन्तश्च हसतो तेषां कश्चिदुस्थाय दीर्घदृक् । सकलं ते प्रदास्यामि सकलं जीवतस्तव ॥ १६ ॥ गृहाण तदितं लेख्यमिति शीघ्रं समर्पिपत् । विलोक्य लेख्यं मुदितः शशासासौ प्रदीयताम् ।। १७ ॥ प्रदीयतामिति मुदा व्याकोशहृदयो यदा । अभूत्तदैव द्राक्तस्य प्राणा देहाद्विनिर्ययुः ।। १८ ॥ यद्यस्य संस्तुतं तस्य बलात्तद्विगमेऽथवा । इच्छया तस्य सा वेला प्राणान्तस्येति विद्यताम् ॥ १९ ॥ प्राणसत्त्वेऽपि यत्तेन द्रव्यं तत्कलयार्पितम् । [५२]तदर्थमूर्खतामेति पूर्णोऽत्रापि न राति यः ॥ २० ॥ इत्यर्थमूर्खाभिधं कुसुममेकपश्चाशत्तमम् ।
[५२] असंबद्धं वदन्त्येव स्वपरान्हासयन्ति च । अत्यारोहन्ति पृष्टाश्चेन्मखाः पश्वधमा मताः॥१॥ तथा च जनमध्यस्थो मूर्खः कश्चिन्नरोत्तमम् । दूरादायान्तमालोक्य भ्रातैष मम संगतः ॥ २ ॥ अर्थदायी भवाम्यस्य न चैष मम कश्चन । ततो नास्य तु भागो मे पश्यतान्तरमन मे ॥ ३ ॥ अहमनेन सदृशो नासौ मत्सदृशस्त्विति ।
वदन्पुरोगतां लोष्ठपाषाणानप्यहासयत् ।। ४ ।। इति दायभागिनाममूर्खाभिधं द्वापञ्चाशत्तमं कुसुमम् ।
[५३] कश्चिपितृगुणाख्यानप्रवृत्तः सखिमध्यगः । तत्र स्वपितुरुत्कर्ष वर्णयन्नेवमभ्यधात् ॥ १ ॥
For Private and Personal Use Only