________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः । अतीव मिष्टान्सुतिलान्भोजयामोऽखिलानिति । आघोष्य परितो रेमे तिलभक्षणहृष्टधीः ॥२॥ तथा कृत्वा हताशाऽसौ हासमाप समंततः । मूढानां केवलं जन्म परहासाय निश्चितम् ।
इति मत्वा निजाज्ञाने परं पृष्वा चरेद्बुधः ॥ ३ ॥ इति तिलकार्षिकाख्यमूर्खकुसुमं त्रयश्चत्वारिंशम् ॥
[४४] भार्यासीत्कस्यचिद्हस्वनासात्युच्चनसो गुरुः । प्रेममानास्पदे एतौ कथं स्यातां मुदे म[५०अम ॥ १॥ इति निश्चित्य संस्थाप्यधिया नासेतयोस्त्वसौ । च्छित्वा तदनुसारेण गुरोर्नासां रहो द्रुतम् ॥२॥ आगत्य योजयामास भार्यानासाच्छिदि द्रुतम् । सुखं स्वपितुमारेभे मुग्धः कोलाहलात्ततः ।। ३ ।। बुद्धः सलजितो लोकैः पलाय्यास स दूरतः । तस्मान्मान तथा प्रेम मूर्खाणां कापि निश्चितम् ।
अनर्थायेति रक्ष्यः स्वो धीरैमूर्खाशयादिति ॥ ४ ॥ इति नासारोपकाख्यमूर्खकुसुमम् चतुश्चत्वारिंशम् ।
[४५] मूर्खः कश्चित्पुमास्तूलविक्रयायापणं ययौ । अशुद्धमिति तत्तस्य न जग्राहात्र कश्चन ॥१॥ विमृष्य स्वर्णकाराय. गत्वा स्वणे. कथं त्वया ।। शोध्यतेऽनाविति श्रुत्वा सोऽपि चक्रे विधि तथा ॥२॥
For Private and Personal Use Only