SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मीतिकल्पतरुः । मिथ्या चरति मिथ्याभिधानेन मित्रं प्रतारयति । अकामान्कामयति यः कामयानान्यरिद्विषन् । बलवंतं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ ३ ॥ अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ ४ ॥ संसारयति कृत्यानि सर्वत्र विचिकित्सते । चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ ५ ॥ संसारयति लोके प्रसारयति । क्षिप्रार्थे क्षिप्रसाध्येऽर्थे । अनाहूतः प्रविशति अपृष्टो बहुभाषते । विश्वसेधः प्रमत्तेषु मूढचेता नराधमः ॥ ६ ॥ परान्क्षिपति दोषेण वर्तमानः स्वयं तथा । यस्तु क्रुध्यत्यनांशः सन्स च मूढतमो नरः ॥ ७ ॥ आत्मनो[४८ब]बलमज्ञात्वा परार्थपरिवर्जितम् । अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥ ८॥ परार्थपरिवर्जितं धर्मार्थवर्जितं सच्छलमिति यावत्, नैष्कर्म्यात्पुरुषकारं विना । अशिष्यं शास्ति यो राजन्ये च शून्यमुपासते । कदर्य भजते यश्च तानाहुर्मूढचेतसः ॥९॥ एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् । योऽसंविभज्य भूतेभ्यः को नृशंसतरस्ततः ॥ १० ॥ सम्पन्नं मिष्टम् । एकः पापानि कुरुते फलं भुङ्क्ते महाजनः । भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥ ११ ॥ महाजनः परिवारो यस्य तस्मात्परार्थं पापार्जनं मौर्यमित्यर्थः । अतिमानोऽतिवादश्च काले त्यागो नराधिप । क्रोधश्चानुविधित्सा च मित्रद्रोहश्च तानि षट् ॥ १२ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy