SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरु। निशम्यं वचनं तस्य प्राहासौ नैषु कोऽप्यघम् । अर्हेत्कर्णोत्पलस्यैतदघं राज्ञोस्ति भाति मे ॥ ८०॥ पुनस्तमाह राज्ञः किं ते हि तत्कारिणस्त्रयः । काकाः किमपराध्यन्ति शुकै ग्धेषु शालिषु ॥ ८१ ॥ राजा ततोऽब्रवश्चैिनं न दुष्यन्ति त्रयोऽपि ते । मन्त्रिसूनोर्हि तत्तावत्प्रभुकार्यमपातकम् ।। ८२ ॥ पमावतीराजसुतावपि कामशराग्निना । संतप्तावविचाराहावदोषौ स्वार्थमुद्यतौ ।। ८३ ।। कर्णोत्पलस्तु राजा स नीतिशास्त्रेष्वशिक्षितः । चारैः प्रजास्वनन्विष्यं सत्वशुद्धिं निजास्वपि ॥ ८४ ॥ अजान्धूर्तचरितानींगिताधविचक्षणः । (४८ अ) तथा तन्निर्विचारं यच्चके तेन स पापभाक् ।।८५॥ तद्भाग्यैः समवाप्यापि नृपै राजासनं सदा । विचारैकपरैर्भाव्यं परथानर्थसंततिः ।। ८६ ॥ इति इति नीतिकल्पे सूक्ष्मधर्मविचारणाख्यमेकोनचत्वारिंशं कुसुमम् इति नीतिकल्पे व्यवहारपण्डितलक्षणकथनाख्यः प्रथमः काण्डः। इत्यं शब्दार्थभेदेन द्विविधपण्डितलक्षणानि दिमात्रेण च तनिदर्शनमुत्क्वाऽयेदानीं न मौख्य · समय॑मिति तत्प्रातियोग्येनोद्दिष्टमूर्खलक्षणम् । तत्रादौ साक्षान्मूर्खलक्षणम् । __ अश्रुतश्च समुनद्धो दरिद्रश्च महामनाः । अर्थाश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥ १ ॥ महामनादानप्रवृत्तः, अकर्मणेति दैवमात्रेण, अकारप्रश्लेषाभावे कर्मणा मीतिरहितेनेति उभयसाध्यत्वादर्थानाम् । स्वमर्थ यः परित्यज्य परार्थमनुधावति । मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥२॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy