SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। अनुविधित्सोपकारेऽपकारेच्छा । एत एवायसा तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् । एतानि मानवान्घ्नन्ति न मृत्युभद्रमस्तु ते ॥ १३ ॥ विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः । वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत ॥ १४ ॥ आदेशकद्वतिर्हन्ता द्विजानां परुषश्च यः । शरणागतहा चैव सर्वे ब्रह्महभिः समाः ॥१५॥ आदेशकृत्मान्यानामपि । एतेषु नैव वक्तव्यं प्रायश्चित्तमिति श्रुतिः । अतिपापकरत्त्वाञ्च महामूर्खा इमे स्मृताः ॥ १६ ॥ इति नीतिकल्पे मूर्खकाण्डे साक्षान्मूर्खकुसुमम् । ..... ... [४१] अथार्थिकमूर्खलक्षणम् । तत्र विदुरवाक्यं धृतराष्ट्र प्रति :दुःशासनस्तूपहतान्तरात्मा नावर्तते क्रोधवशात्कृतघ्नः । न कस्यचिन्मित्रमथो दुरात्मा कलाश्चैता अधमस्येह पुंसः ॥१॥ न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशंकितः । निराकरोति मित्राणि यो वै सोऽधमपूरुषः ॥ २॥ कल्याणं पुण्यं, परेभ्यः परेषाम् । स्वस्यासद्वत्तदर्शनातिशं[४९कितः । न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् । यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतनाः ॥ ३ ॥ विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत । धनाभिजनवृद्धांश्च नित्यं मूढोऽवमन्यते ॥४॥ अनार्यवृद्धमप्रज्ञमसूयकमधार्मिकम् । अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ ५ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy