SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir :१२० मीतिकल्पतरुः। युक्तयेति[४७ ]प्रवदल्लस्मिन्बहिः कोलाहलोऽप्यभूत् । हा धिक्प्राज्ञसुतो बालो हत इत्युदिते रेव ॥ ५५ ॥ हृष्टो मन्त्रिमुतः प्राह तं गच्छाद्य गृहं निशि । तत्र तां पाययेस्तावद्यावत्पानमदेन सा ॥ ५६ ।। निःसंज्ञा नष्टचेष्टा च गतजीवेव जायते । ततोऽस्याश्च सनिद्रायाः शूलेनांकं कटीतटे ॥ ५७ ॥ दत्त्वाग्नितप्तेनादाय तदाभरणसंचयम् । यथागतमथागच्छ येन भद्रान्तरं भवेत् ॥ ५८ ॥ कारयित्वार्पिपत्वैव त्रिशूलं राजसूनवे । राजपुत्रः स्वहस्ते तत्कृत्वा कुटिलकर्कशम् ॥ ५९ ।। तथेति पूर्ववद्रात्रौ अगात्पद्मावतीगृहम् । अविचार्य शुचीनां हि मन्त्रिणां वाक्यमद्रुतम् ॥ ६० ॥ कृत्वा बत तथा सर्व प्राग्वदागत्य चैव हि । भूष्याजातं प्रदर्यास्मै समुपाविशदन्तिके ॥ ६१ ॥ सिद्धं मनीषितं मत्वा मन्त्रिपुनः प्रगे स्वयम्' । गुरुर्भूत्वा विधायैनं शिष्यं पितृवनं ययौ ॥ १२ ॥ धृत्वा तत्र च पश्चाग्नानाहैनं त्वमिमं नय । हारं मूल्येन बहुना विक्रेतुमिव दर्शय ॥ ६३ ॥ गुरुणा मम विक्रेतुमियं दत्तेत्यनाकुलः । सोऽतिष्ठदापणे हारं दधच्च पुरराक्षभिः ॥ ६४ ॥ गृहीतो दन्तघाटस्य हारचौरो गवेषिभिः । निन्ये च नगराध्यक्षनिकटे तैश्च तत्क्षणात् ॥ ६५ ॥ स तं प्राप समालोक्य साम्ना पप्रच्छ चादरात् । कुतस्त इति सोऽप्याह गुरुणेति स पृच्छ्यताम् ॥ ६६॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy