SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः । स चात्र तिष्ठत्येकाकी तव धात्री गृहे मया । तं संगम्य पुनश्चात्रागन्तव्यं तद्विसर्जय ॥ ४३ ॥ निशम्यासौ विचिन्त्यापि तं पप्रच्छ वदस्व मे । मत्संज्ञार्थः स्वयं ज्ञातोऽथवा तदुदितात्त्वया ॥ ४४ ॥ ज्ञातं तदुदितात्सर्व दिव्यबुद्धिसौ मम । श्रुत्वा चिरं विचिन्त्यास प्रोवाच किमिदं चिरात् ॥ ४५ ॥ त्वयोक्तं भोः स मे भ्राता होपचारैरपूजितः । ताम्बूलादि समाचारः कर्तव्योऽस्य ममाधुना ॥ ४६ ॥ इत्युक्तोऽनुमतः सोऽपि पथा तेनागतोऽब्रवीत् । सदाचारं स्वमित्राय श्रुत्वा मुक्तमिदं ध्रुवम् ॥ ४६ ॥ एवं कथयतोस्तत्र विभाताभूद्विभावरी । अथैतयोर्विधौ सान्ध्ये निवृत्ते कुर्वतोः कथाः ॥ ४८ ॥ आगात्ताम्बूलपकान्नहस्ता पद्मावती सखी । प्रतीक्षमाणा भुक्तिं ते स्वामिनी याहि तद्रुतम् ॥ ४९ ॥ इदं च मन्त्रिपुत्रार्थं भोजनं प्रैषिषत्सदा । इत्याद्यैव यातायां तस्यां सोऽप्याह तं प्रभुम् ॥ ५० ॥ कौतुकं पश्य चेत्युक्त्वा शूने पूपं ततो ददौ । पूपं भुक्त्वैव सोऽप्याशु ममारेति विलोक्य सः ।। ५१ ।। किमिदं चेति पप्रच्छ तं स चैनमभाषत । संज्ञाज्ञानेन धूर्त मां विदित्वा हंतुकामया ॥ ५२ ॥ तया विषान्नं प्रहितं मह्यं त्वदनुरक्तया । नास्मिन्सति मदेकाम्रो राजपुत्रो भवेदयम् ॥ ५३ ॥ एतद्वशश्च मुक्त्वा मां नगरीं स्वां व्रजेदिति । तन्मुश्च मन्युं नैषात्र स्थाप्या नेया निजां पुरीं ॥ ५४ ॥ For Private and Personal Use Only ११९
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy