SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। सालक्तकाभिरंकास्तां पश्यतं किं करोम्यहम् । शंकितं राजपुत्रं तं साह मैवं श्रुणुष्व मे ॥ ३० ।। आर्तवं त्र्यहमति ततः कार्य भवेदिति । गते पुनरूयहे सात्र प्रेषिता मानिता तया ॥ ३१ ॥ प्रीत्या पानादिलीलाभिर्दिनं धात्री विनोदिता । सायं गृहोद्यतायां च तस्यां कोलाहलो बहिः ॥ ३२ ॥ अभून्मत्तगजो लोकान्मर्षयतीति तयाप्यसौ । उक्ता स्पष्टपथा यातुं न युक्तं तेऽथ भामिनि ॥ ३३ ॥ तत्पीठिका समारोप्य बद्धलम्बनरज्जुकाम् । बृहद्वाक्षेणानेन त्वामत्र प्रक्षिपामहे ॥ ३४ ॥ गृहोद्याने तत्र वृक्षमारुह्यामुं विलंध्य च । प्राकारमारुह्यान्यवृक्षेण स्वगृहं ब्रज ॥ ३५ ॥ साथ गत्वा यथोक्तन पथा सर्व शशंस तत् । ताभ्यां ततस्तमासहौ मन्त्रिपुत्रः श्रुणुष्व भोः ॥ ३६ ॥ सिद्धं तवेष्टं मार्गो हि युक्त्या ते दर्शितस्तया । तदनेन पथा राजन्प्रदोषे तद्गृहं विश ॥ ३७ ॥ इत्युक्तस्तधुतोऽसौ तदुद्यानं सालमेव च । कृत्वारोहावरोहाप्तं लम्बमानां [४६ब ]स पीठिकाम् ॥ ३८ ॥ विलोक्य रम्जुमास्थाय तां दास्युच्छलितोद्रुतम् । प्रापान्तिकं स कामिन्या मन्त्रिपुत्रोऽप्यगादृहम् ॥ ३९ ॥ विलोक्य मुदिता साप्येनं मत्ताभूक्षणात्ततः । कण्ठाश्लेषादिभिस्तैस्तैरुपचाररतोषयत् ॥ ४० ॥ ततस्तया गान्धर्वविधिनोदूढया सह । गुप्तं राजसुतस्तस्थौ पूर्णेच्छस्तत्र कान्तया ॥४१॥ स्थित्वा वाहानि कतिचिद्रात्रौ तामवदप्रियाम् । 'सखा मम सहायातो मन्त्रिपुत्र इहास्थितः ॥ ४२ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy