SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। प्रियार्थे मृगयाव्याजात्पुनस्तगमदिशम् । कलिङ्गविषयं गत्वा कर्णोत्पलमहीभृतः ॥ १७ ॥ अन्विष्य दृष्ट्वा भवनं दन्तघाटस्य तस्य च । तददूरे च वासार्थमेकस्याः वृद्धयोषितः ॥ १८ ॥ गृहं प्राविशतां मन्त्रिपुत्रराजमुतावुभौ । तामाह मन्त्रिपुत्रोऽसौ किं मातर्दन्तघाटकम् ॥ १९ ॥ इहस्थं वेत्सि साहैतं तस्य धात्र्यहमद्य च । स्थापिता दुहितुः पार्श्वे पद्मावत्याश्च तेन भोः ॥ २०॥ एवमुक्तवती प्रीतः स्वोत्तरीयादिदानतः । संतोष्य सोऽत्र वृद्धा तां मन्त्रिपुत्रोऽब्रवीत्पुनः ॥ २१ ॥ माता त्वं तदेतत्तत्र गत्वा तां ब्रूहि स[४६ अ]आगतः । राजपुत्रस्त्वया दृष्टस्तत्र योऽभूत्सरस्तटे ॥ २२ ॥ तेन चेह तवाख्यातुं प्रेषिता प्रणयादहम् । श्रुत्वा गत्वाऽथ सा तुष्टागल्य पृष्टा जगाद तौ ॥ २३ ॥ युष्मदागमनं गुप्तं मय्याख्यातं निशम्य सा । मा निर्भर्त्य सिताभ्राक्तपाणिभ्यां मुखमालिपत् ॥ २४ ॥ ततः पराभवोद्विग्ना रुदत्यहमिहागता । एतास्तदलडीमुद्रा पुत्रौ मे पश्यतं मुखे ॥ २५॥ एवं तयोक्ते नैराश्यविषण्णं तं नृपात्मजम् । धीदेहः प्राह भद्रं ते सम्पन्नं श्रुणु चापि भोः ॥ २६ ॥ रात्रीर्दश प्रतीक्षस्व शुक्ले चन्द्रवतीरिमाः । इत्यङ्गुलगियोक्तं ते तयेति मुदितो भव ।। २७ ॥ तया दत्तव्ययौ तौ च कृत्वा मिष्टान्नभोजनम् । दशरात्रीरतीत्यामुं पुनः प्राहिणुता मुदा ॥ २८ ॥ गत्वाथागल्य तौ साहाहताप्येवं तया पुनः । भवत्प्रीत्योक्तयावत्सौ करव्यङ्गलिमिईता ॥ २९ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy