________________
Shri Mahavir Jain Aradhana Kendra
११६
www.kobatirth.org
1 Corrupt.
नीतिकल्पतरुः ।
शरीराभ्याधिको मंत्रिपुत्रो बुद्धिशरीरकः । ( संज्ञायां कन्नू, बुद्धिशरीराख्य इत्यर्थः ) स जातु तेन मृगयासंगाद्दूरमितो वने ॥ ५ ॥ महासरो ददर्शात्र स्नाना [ ४५ ब] कांचिदागताम् । सा जहार मनस्तस्य राजपुत्रस्य तत्क्षणात् ॥ ६ ॥ सोऽप्यहार्षीत्ततस्तस्याः युवा दृष्ट्वा विलोचने । यथा नैक्षत सा कन्या लज्जां स्वामप्यलंकृतिम् ॥ ७ ॥ यूनि पश्यति तस्मिन्सा केयं स्यादिति सानुगे । करोति स्मोत्पलं चक्रे गृहीत्वा पुष्पशेखरात् ॥ ८ ॥ चिरं च दन्तरचनां चकाराधाय च व्यधात् । पद्मं शिरसि साकूतं हृदये चादधे करम् || ९ | क्षणाच सा ययौ कन्या नीयमानानुगैस्तदा । सोऽपि गत्वा स्वनगरीं तयते' कृच्छ्रमासदत् ॥ १० ॥ अनभिज्ञः स्वयं सख्या मन्त्रिपुत्रेण तेन सः । मा शुचो विदितं सर्वं मया तस्या इतीरितः ॥ ११ ॥ किं न दृष्टं त्वया तद्यत्संज्ञया सूचितं तया । न्यस्तं यदुत्पलं कर्णे तेनैत्तत्ते तयोदितम् ॥ १२ ॥ कर्णोत्पलस्य राष्ट्रेऽहं निवसामि महीभृतः । कृता यद्दन्तरचना तयैतत्सूचितं तव ॥ १३ ॥ तत्र जानीहि मां दन्तघाटकस्य सुतामिति । पद्मावतीति नामोक्तं तयोक्तं सितपद्मया ॥ १४ ॥ स्वयि प्राणार्पणं प्रोक्तं हृदयार्पितहस्तया । राजादयोऽप्यमी सर्वे विदिताः सन्ति लोकतः ॥ १५ ॥ ममेति विदितं सर्वं तत्तस्या इंगितं प्रभो । इस्यसौ तेन संज्ञप्तो हृष्टः संमन्त्र्य तद्युतः ।। १६ ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only