________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११५
नौतिकल्पतरुः। एक तसभीचतस्ततो मौसरयोजयत् । द्वितीयो जनयत्तस्य तद्वत्त्वग्लोमसंहतीः ॥ ३४ ॥ तृतीयश्चाखिलैरङ्गैस्तद्योग्यैस्तदपूरयत् । चतुर्थश्चाददे तस्य सिंहीभूतस्य जीवितम् ॥ ३५ ॥ उदतिष्ठदथोद्भूतसटाभारोऽतिभैरवः । स दंष्ट्रासंकटमुखः सिंहः खरनांकुशः ॥ ३६ ॥ भावित्वा च स्वनिर्मातस्तानेव चतुरोऽपि सः । अवधीत्केसरी दृप्तो विवेश च बनान्तरम् ॥ ३७ ॥ मूले ह्यविकृते दैवे सिक्तः प्रज्ञानवारिणा। . नयालवालः फलति प्रायः पौरुषपादपः ॥ ३८॥ इत्यं विप्रसुतेष्वेतेषु मृतेषु वद कस्य सा । हत्या लगति सर्वेषां निर्मातृत्वे समे स्थिते ॥ ३९ ॥ सत्यं सर्वेऽपि कर्तारो जीवदायी विशिष्यते । सिंहाकृतिं विलोक्यापि विज्ञानालोकना बलात् ।
येन प्राणोऽर्पितस्तस्य तदेकाश्रयगास्त्यसौ ॥ १० ॥ इति विधिवक्रतायां गुणार्जनवैफल्यकथनं नामाष्टात्रिंशं कुसुमम् ।
[३९] अतीव विषमं जीवचरितं तत्र राजभिः । धिया समवधातव्यं परथा विषमा गतिः ॥ १॥ तथा च श्रूयतां सम्यक्नयसाद्गुण्यबृंहिता । कयेयं विबुधैः सम्यग्लोकानंत्यधृतादरैः ॥२॥ अस्ति वाराणसी नाम पुरारिवसतिः पुरी । हारयष्टिरिवाभाति यस्याः स्वर्गतरंगिणी ॥ ३ ॥ तस्यां प्रतापमुकुटो राजाभूत्तनयोऽस्य च । रूपशौर्ययुतो वज्रमुकुटाल्यो स वै सुहृत् ॥ ४ ॥
For Private and Personal Use Only