SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः । आहृत्य रक्षमाणापि यत्नेनापि विरागिणी | असन्मैत्री च वेश्या च श्रीश्व कस्य कदा स्थिरा ॥ २१ ॥ तदुद्योगेन स गुणः कोऽप्युपार्यो मनस्विनः । आनीयन्ते हठाद्बध्वा येनार्थहरिणा मुहुः ॥ २२ ॥ इत्युक्तो भ्रातृभिधैर्यं क्षणाज्ज्येष्ठोऽवलम्ब्य सः । प्रोवाच को गुणस्तादृगर्जनीयो भवेदिति ॥ २३ ॥ ततो विचिन्त्य सर्वे वदन्ति स्म परस्परम् । विचिन्त्य पृथ्वीं विज्ञानं किंचिच्छिक्षामहे वयम् ॥ २४ ॥ निश्चित्य तैश्च संकेतस्थानमुक्त्वा समागमे । एकैकशस्ते चत्वारश्चतस्रः प्रययुर्दिशः ॥ २५ ॥ याति काले च मिलितास्ते संकेतनिकेतने । किं केन शिक्षितमिति भ्रातरोऽन्योन्यमब्रुवन् ॥ २६ ॥ अथात्रैकोऽब्रवीदिदृग्विज्ञानं शिक्षितं मया । येनास्थिशकलं प्राप्य प्राणिनो यस्य कस्यचित् ॥ २७ ॥ उत्पादयाम्यहं तस्मिन्मांसं तदुचितं क्षणात् । एतत्तस्य वचः श्रुत्वा द्वितीयस्तेष्वभाषत ।। २८ ॥ अहं तत्रैव संजाते मांसेऽस्थिशकले किल । जाने जनयितुं लोमत्वचं तत्प्राणिसंभवि ।। २९ ॥ ततस्तृतीयोऽप्यवदज्जाने तत्रैव चाप्यहम् । तत्प्राण्यवयवान्स्रष्टुं जातत्वग्लोममांसके ॥ ३० ॥ चतुर्थश्च ततोवादीदुत्पन्नावयवकृतिम् । तमेव प्राणिनं प्राणैर्युतं कर्तुमवैम्यहम् ॥ ३१ ॥ [४५ अ] एवमुक्त्वा मिथः स्वम्वविज्ञानप्रथनाय ते । चत्वारोऽप्यस्थिखंडारा प्रययुर्भ्रातरोऽटवीम् ॥ ३२ ॥ तत्र सिंहस्य ते प्रापुरस्थिखण्डं विधेर्वशात् । अविज्ञातविशेषाच्च गृह्णन्ति स्म तथैव तत् ॥ ३३ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy