________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१११
नीतिकल्पतरुः। विचित्रवेशभाषादिविलोकनविनोदितः । पश्यन्नानाविधान्देशान्क्रमात्प्राप स जाह्नवीम् ॥ ४९ ॥ तथावतीर्णस्तस्यां च कृतस्नानो यथाविधि । चिक्षेपास्थीनि भूपस्य तस्य सूर्यप्रभस्य सः ।। ५० ॥ तत्रोपोष्य कृतस्नानदानश्राद्धादि सक्रिया। वाराणसी जगामाशु स चंद्रप्रभभूपतिः ॥ ५१ ॥ तस्यां दिनान्युपोष्य त्रीण्यभ्यर्च्य च वृषध्वजम् । [४३ ब]भोगनिजोचितेस्तैस्तैः प्रययौ स गयां प्रति ।। ५२ ॥ नानारण्यान्यतिक्रम्य पुण्यं प्राप गयाशिरः । विधाय तत्र च श्राद्धं विधिवद्भरिदक्षिणम् ॥ ५३ ।। चन्द्रप्रभः स राजात्र धारण्यमुपेयिवान् । गयाकूपेऽस्य ददतः पितुः पिण्डं तदन्तरात् ।। ५४ ॥ समुत्तस्थुः समादातुं त्रयो मानुषपाणयः । तद्दष्ट्रेव च विभ्रान्तः किमेतदिति पार्थिवः । कस्मिन्हस्ते क्षिपे पिण्डमित्यपृच्छन्निजान्द्विजान् ॥ ५५ ॥ ते तमूचुरयं तावदेकश्चौरस्य निश्चितम् । हस्तो लोहमयः शंकुर्यस्मिन्देवैष दृश्यते ॥ ५६ ॥ द्वितीयो ब्राह्मणस्यायं करो धृतपवित्रकः । राज्ञः पाणिस्तृतीयोऽयं साङ्गुलीयः सुलक्षणः ।। ५७ ॥ तन्न विद्मः क पिण्डोऽयं निक्षिपेः किमिदं भवेत् । त्रयाणां पितृपाणीनां विप्राणां चापि संशये ॥ ५८ ॥ इत्थं जाते नृप ब्रूहि किं हस्ते पिण्डयोग्यता । इति श्रुत्वा स भूपालो धर्मज्ञस्तमभाषत ॥ ५९॥ चौरस्य हस्ते दातव्यः स पिण्डः क्षेत्रजो यतः । चन्द्रप्रभः स नृपतिः पुत्रस्तस्यैव नान्ययोः ॥ ६० ॥ विप्रस्य जनकस्यापि न स पुत्रो हि विद्यते । विक्रीतो हि धनेनात्मा तामेकां तेन यामिनीम् ।। ६१ ॥
For Private and Personal Use Only