SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः । विष्णुस्वामीत्युपाध्यायशिष्यस्तत्रातिरूपवान् । विद्याप्राप्त्यनुरक्तोऽपि वाञ्छति स्म विलासिनीम् । हंसावलीं वारवधूं शतपञ्चपणामिति ॥ २४ ॥ तं स्वर्णनिष्कविरहाद्विषण्णं सा ददर्श ह । क्षामाभिरूपवपुषं [ ४२ ब ] हर्म्यारूढा वणिक्सुता ॥ २५ ॥ तद्रूपहृतचित्ता च भर्तुचौरस्य तस्य सा । स्मृत्वानुज्ञां समीपस्थां युक्त्यावोचत्स्वमातरम् ॥ २६ ॥ अम्ब विप्रसुतस्यास्य पश्यैते रूपयौवने । कीदृशी बत विश्वस्य नयनामृतवर्षिणी ॥ २७ ॥ एतच्छ्रुत्वैव तस्मिंस्तां बद्धभावामवेत्य च । चिन्तयामास माता सा त्वनया भर्तनुज्ञया ॥ २८॥ विधेयैवं क्रियेषोऽस्तु वर इत्यर्थ्यते न किम् । इति ध्यात्वा निजां चेटिं प्रैषिषत्सा तदन्तिके ॥ २९ ॥ सोऽप्यागतां निशम्यैतां हृष्टोप्याहाधिपिडितः । यदि हंसावली हेतोर्दी नारशतपञ्चकम् ॥ ३० ॥ सौवर्णं दीयते मह्यं तदेकां यामि यामिनीम् । श्रुत्वा चेटिवचो माता स्वीकृत्यैतद्ययैौ च सः ॥ ३१ ॥ तया समं च नत्वा तां रात्रिं संभोगलीलया । निर्गत्य च ततो गुप्तं ययौ प्रातर्यथागतम् ॥ ३२ ॥ सापि तस्मात्तया रात्र्या सगर्भाभूद्वणिक्सुता । काले च सुषुत्रे पुत्रं लक्षणानुमितायतीम् ॥ ३३ ॥ परितुष्टां तदा तां च सुतोत्पत्या स मातृकम् | आदिदेश हरः स्वप्ने दर्शितस्ववपुर्निशि ॥ ३४ ॥ युक्तं हेमसहस्रेण नीत्वा बालमुषस्यमुम् । सूर्यप्रभनृपस्येह मंचस्थं द्वारि मुंच तम् ॥ ३५ ॥ For Private and Personal Use Only १०९
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy