SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। १०७ अवधाय धियं तस्माच्छ्रद्धां कृत्वा दृढां स गुरुवचने । विद्याभ्यासात्फलिता भवति मुदे तस्य चास्यापि ॥ ६२ ॥ इत्यस्थानोपदेशकथनाभिधं कुसुमम् । [३७] धर्मविचारः सूक्ष्मो जागर्य तत्र सन्मतिभिः । अतिविस्मयदानेयं निशम्यतां सत्कथा विबुधैः ॥ १ ॥ वक्रोलकपुरे सूर्यप्रभराजाभिरक्षिते । वसुधा वसुधारामी रराज परितोभृता ॥ २ ॥ सर्वसंपत्समृद्धस्य तस्यैकाभूदनिर्वृतिः। नोपपद्यत यत्पुत्रो बहुष्यंतःपुरेष्वपि ।। ३ ।। अत्येवं ताम्रलिप्त्यां च धनपालाभिधो वणिक् । बभूव रूपसंपत्तिसूचिताप्सरसां वरा ॥ ४ ॥ अवतीर्णा सुर्ता यस्यां युवतौ स मृतो वणिक् । गोत्रजैस्तद्धने तस्य हृतेऽखिलतया वधूः ॥ ५॥ अशरण्या समादाय भूषणाचं निशामुखे । सुतया सहया निर्गल्य प्रतस्थे दूरकांक्षया ॥ ६ ॥ ध्वान्तेन बहिरन्तश्च सा दुःखेनान्ध्यमापिता । कृच्छ्राद्बहिः पुरात्प्रायात्सुताहस्तावलंबिनी ॥ ७ ॥ तत्र संतमसे यान्ती विधियोगादलक्षितं । अंसेनाताडयञ्चौरं शूलाग्रारोपितं पथि ॥ ८॥ स सजीवस्तदंसाग्रघट्टनाधिकपीडितः । आः क्षते क्षारमेतन्मे क्षिप्तं केनेत्यभाषत ॥९॥ ततस्तत्रैव सा कोऽसीत्यपृच्छत्तं वणिग्वधूः । प्रत्युवाच ततश्चौरश्चौरोऽहमिति दीनगीः ॥ १०॥ शूले चाद्यापि पापस्य नोत्क्रामन्ति ममासवः । [४२ अ] तदार्ये त्वं मम ब्रुहि कासि केवं प्रयासि च ॥११॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy