SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। कष्टं नियन्ते स्वजनाः सर्वेऽमी विशतोऽनलम् । न च जानामि किं सत्यं गुरोस्तद्वचनं न वा ॥ ५० ॥ तत्कि न प्रविशाम्यग्निमत किं न विशामि वा । अथवा तत्कथं मिथ्या स्यात्संवादि गुरोर्वचः ॥ ५१ ॥ तद्विशाम्यनलं काममित्यन्तःप्रविमृश्य सः । अग्निप्रवेशं विदधे चन्द्रस्वामी किल द्विजः ॥ ५२॥ अनुभूतहिमस्पर्शी वह्वेश्च स सविस्मयः । शान्तः सायं नदीतीरादुत्थायोपययौ तटम् ॥ ५३ ॥ तत्र स्थित्वा च तं दृष्ट्वा गुरुं नत्वा च पादयोः । पृच्छन्तं चाग्निशैल्यान्तं स्वमुदन्तमवर्णयत् ॥ ५४॥ ततस्तं स गुरुः प्राह वत्स शंके कृतस्त्वया । अपचारोऽत्र शीतस्ते कथं जातोऽग्निरन्यथा ॥ ५५ ॥ अदृष्टमेतदेतस्या विद्यायाः साधने यतः ।। एतद्गुरोर्वचः श्रुत्वा चन्द्रस्वामी जगाद सः ॥ ५६ ॥ नापचारो मया कश्चिद्विहितो भगवन्निति । ततः स तद्गुरोविद्यां जिज्ञासुस्तां समस्मरत् ॥ ५७ ॥ न च साविरभूत्तस्य न तच्छिष्यस्य तस्य वा । नष्टविद्याविबोधौ तौ विषण्णौ जग्मतुस्ततः ॥ ५८ ।। राजन्संशयमेतं छिन्द्धि[४१ ब]मम ब्रूहि हेतुना केन । विहितेऽपि यथोद्दिष्टे कर्मणि विद्योभयोनष्टा ॥ ५९ ॥ न दुष्करेणापि हि कर्मणैव । शुद्धेन सिद्धिः पुरुषस्य लभ्या। यावन्न निष्कम्पविकल्पशुद्धं । धीरं मनो निर्मलसत्त्ववृत्ति ॥ ६०॥ तस्यात्र मन्दस्य तु विप्रयून श्चित्तं प्रबुध्यापि विकल्पते स्म । विद्या न सा तेन गतास्य सिद्धि. मस्थानदानाच्च गुरोविनष्टा ॥ ६१ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy