SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। १०४ पर्यकशयने भेजे तत्संभोगसुखं निशि । प्रातः प्रबुद्धश्चापश्यत्तमेवात्र शिवालयम् । न ता दिव्याङ्गना नापि पुरं तच्च परिच्छदम् ॥ २५ ॥ ततः स विघ्नं निर्यातं मठिकातः स्मिताननम् । पृष्टरात्रिसुखं प्रातस्तापसं तं व्यजिज्ञपत् ॥ २६ ॥ त्वत्प्रसादादहं रात्रावुषितो भगवस्सुखम् । किं तु यास्य[४० ब]न्ति मे प्राणास्तया दिव्यस्त्रिया विना ॥२७॥ तच्छ्रुत्वा स तपस्वी तं हसन्कारुणिकोऽब्रवीत् । इहैवास्व पुनर्नक्तं भविष्यति तथैव ते ॥ २८ ॥ इत्युक्त्वा वतिना तेन तदुक्त्यैव प्रतिक्षपम् । चन्द्रस्वाम्यत्र सोऽभुक्त भोगं तं तत्प्रसादतः ॥ २९ ॥ बुद्धा च तं शनैर्विद्याप्रभावं विधिचोदितः । एकदा तापसेन्द्रं तं संप्रसाधान्वयाचत ॥ ३० ॥ सत्यं कृपा चेद्भगवन्मयि ते शरणागते । तदेतां देहि मे विद्यां यत्प्रभावोऽयमीदृशः ॥ ३१ ॥ इति ब्रुवाणं निर्बन्धात्तं प्रत्याह स तापसः । असाध्या तव विधेयं साध्यतेऽन्तर्जले ह्यसौ ॥ ३२ ॥ तत्र चैषा सृजत्याशु जपतः साधकस्य तत् । मायाजालं विमोहाय येन सिद्धिं न सोऽश्नुते ॥ ३३ ॥ अस्थानार्पणतो यावद्गुरोरपि विनश्यति । मसिद्धयैव फले सिद्धे किं ग्रहेणामुना तव ॥ ३४ ॥ मस्सिद्विहान्या मा जातु तयैतदपि नश्यति । एवं तपस्विनोक्तोऽपि चन्द्रस्वामीग्रहेण सः ॥ ३५॥ शिक्षामि शैवं माभूद्वश्चिन्तात्रेति तमब्रवीत् । ततोऽस्मै प्रतिपेदे तां विधा दातुं स तापसः ॥ ३६ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy