SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९.६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः । । चौरस्त्यागी न वणिजाविति सत्यं विभाति मे पतिपरानुरक्तां तां विलोक्य कुलजः कथम् ॥ ३७ ॥ हार्दं कुर्यात्परः कालजीर्णवेगो भयादपि । सासौ प्रातर्नृपायाहेति च चौरस्तु पापधीः ।। ३८॥ निरपेक्षो गुप्तचारी तामत्याक्षीच यत्तदा । सभूषां तेन मे भाति चौरस्त्यागीति नान्यथा ॥ ३९ ॥ इति सत्यप्रतिज्ञाफलकथनं नामकं चतुखिंशं कुसुमम् । [३५] किं नाम मन्त्रिणां गुप्तं मन्त्रधीः सर्वसाधनम् । " तथा विचरतां नेह स्खलनं जातु जायते ॥ १ ॥ वाराणसीति नगरी क्रीडास्थानं यदीशितुः । तत्राभूद्राजमान्योऽग्र्यो देवस्वामीति वाडवः ॥ २ ॥ हरिस्वामीति पुत्रोऽस्य तस्य लावण्यमूर्तिभृत् । [ ३७ ब] तिलोत्तमादिना कस्त्री रूप गर्वापहारिणी ॥ ३ ॥ भार्या स चानया साकं हरिस्वामी कदाचन । रतिकान्तो ययौ निद्रां हर्म्ये शीतांशुशीतले ॥ ४ ॥ तन्मार्गेण ययौ तत्र विद्याधरकुमारकः । तां रतिक्रमसंत्रस्तवस्त्रयुक्ताङ्ग सैौष्ठवाम् || ५ || विलोक्य कामविद्धाङ्गो हृत्वागान्नभसा गृहान् । प्रबुद्धोऽसावदृष्ट्वा तामवेक्ष्य थार्गलादिकम् || ६ || तथैव शोकसंतप्तो बभूव बहुदुःखितः । कृत्वापि यत्नं परितो यदा नैनामवाप्तवान् ॥ ७ ॥ तदोद्विग्नहृदाश्वेष तीर्थयात्रामिषागृहात् । निर्गत्य व्यचरदेशांस्तदातिधृतचेतनः ॥ ८ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy