SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नौतिकल्पतरुः। बभूव तत्तथा येन तेनाप्तानङ्गसुंदरी । कृतोद्वाहश्च स तया साकं दर्शनसक्तया। भार्यया स्वपितुर्गेहं जगाम धवलः कृती ॥५॥ अथ श्यालोऽस्य भगिनीं तं चापि भगिनीपतिम् । निमन्त्रयितुमायातः सुखं तत्रावसहिनम् ॥ ६ ॥ प्रातर्मदनसुन्दर्या श्वाशुर्येण च तेन सः । सहितो धवलः प्रायागृहं तच्छ्वशुरं प्रति ॥ ७ ॥ प्राप्य शोभावती तां च पुरीमात्मतृतीयकः। . ददर्शान्तिकमाप्तोऽसौ श्रीगौर्यायतनं महत् ॥ ८ ॥ एतया मे मनःकामः पूरितस्तीर्थयात्रया । कथं नामाहमेतस्या गत्वा कुर्वे न चार्चनम् ॥ ९ ॥ इति कृत्वा मतिं भायां श्यालं चाह प्रयात भोः । एनां गौरी समभ्यर्च्य यामो वयमथालयम् ॥ १० ॥ नेत्यसौ प्रतिषिद्धश्च तिष्ठतं केवलं त्वहम् । गत्वाभ्याप्यस्तं' शीघ्रं यामीत्युक्त्वा ययौ त्वरम् ॥ ११ ॥ प्राप्यात्र विधितोमुष्यजाताधीवतु' जातुचित् । नार्चितेयं मया सम्यग्देवी तत्साम्प्रतं मया ॥ १२ ॥ तोष्याऽसौ जीवदानेनेत्याकलय्य कृपाणिकाम् । उत्थाप्य तद्गर्भगृहाचात्रिकैः प्राभृतीकृताम् ॥ १३ ॥ बद्धा शिरोरुहैः घण्टाशङ्खलायां निजं शिरः । चिच्छेदासौ तया तच्च च्छिन्नं दागपतद्भुवि ॥ १४ ॥ किंच यावत्स नायाति तावद्गत्वा तमीक्षितुम् । [३५ ब]तत्रैव देवीभवने तच्छ्वाशुर्यो विवेश सः ॥ १५ ॥ तदृष्ट्या मोहितः सोऽपि शिरस्तेनासिनाच्छिनत् । तचिंतया गता सापि दृष्ट्वा तौ च तथागतौ ॥ १६ ॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy