SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरु। तत्रास्या लग्नवेलायामाप्तायामुदभूत्कलिः । तेषां त्रयाणां ज्ञान्याह प्राप्तेयं ज्ञानतो मया । २३ ॥ न चेत्तत्र नयिष्ये वः कथमाप्ता भवेदिति । विज्ञान्याहाह शूरस्तु न चेतं रक्षसं रणे ॥ २४ ॥ हन्यां कथमियं प्राप्ता भवेदिति कलौ पुनः । जाते पिता शुचार्तोऽसौ तूष्णीं तस्थावधोमुखः ॥ २५ ।। तत्कस्मै सात्र देयेति राजन्वदतु मे भवान् । इति वेतालतः श्रुत्वा ततो मौनं विहाय च ॥ २६ ॥ स त्रिविक्रमसेनस्तं जगादेवं महीपतिः। शराय सा प्रदातव्या येन देहपणोधमात् ।। २७ ।। अर्जिता बाहुवीर्येण हत्वा तं युधि राक्षसम् । ज्ञानिविज्ञानौ त्वस्य यात्राकर्मकरौ कृतौ। उभौ गणकतक्षाणौ परोपकरणं न किम् ।। २८ ॥ इति न्यायधीपरीक्षाभिधानं द्वात्रिंशं कुसुमम् ।। [३३] किं नामागोचरं सूक्ष्माधियां जगति ये क्षणात् । [३५ अ ] करामलकवत्सर्वं दर्शयन्ति तथेत्यताम् ॥ १ ॥ शोभावत्यां पुरे योऽभूयशःकेतुरिति श्रुतः । जातायां तीर्थयात्रायां तत्रागाद्धवलाभिधः ॥२॥ वैश्यपुत्रो ददर्शासावत्रत्य रजकात्मजाम् । तीर्थे कामं शिरोद्भिन्नगात्रोऽभिज्ञाय तत्कुलम् ॥ ३ ॥ गतो मूर्छासमापन्नः पितृभ्यामनुमोदितः । समाश्वसिहि सा जात्यमावयोरिति दौत्यतः ॥ ४ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy