SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 Corrupt. १३ नीतिकल्पतरुः । हरिस्वामी गृहायातो भार्यापुत्रावुवाच ह । कन्यापणोऽर्धमार्गे मे पूर्णोऽभूच्छल्पिनेति सः ॥ ११ ॥ निशम्य तौ तथैवास्मा ऊचतुः स्वकृतं पणं । पृथक्पृथक्तथैकस्मिन्दिने सप्तदिनावधौ ॥ १२ ॥ सोऽपि तेनाकुलो जातो वरत्रयनिमन्त्रणात् । अथ तस्मिन्दिने तत्र त्रयोऽप्येते स्वसंविदा ॥ १३ ॥ आययुर्ज्ञानविज्ञानिशूराः सापि तदा सुता । दैवान्निश्शंकमेवाभूत्पिहिता नायिता क्वचित् ॥ १४॥ ततोऽब्रवीद्विजस्तत्र ज्ञानिनं कथ्यतां स्वया । [ ३४ ब] कैषेति सोऽपि तं प्राह रक्षसा धूमकेतुना । १५ ॥ नीतालयं निजं विंध्यवासिना जीवितास्ति सा । दुःखार्त विलपन्तं तं कथमाप्येति सोऽब्रवीत् ॥ १६ ॥ विज्ञानी मा शुचो नेष्ये क्षणात्तत्र क्षणात्पुनः । प्रत्यानयामि वेलैषा नात्येत्यप्यौपयामिकी ॥ १७ ॥ इत्युक्त्वा तत्क्षणं कृत्वा रथं सर्वास्त्रसंयुतम् । तत्रारोप्य हरिखा। मिज्ञानिशूरान्वगामिनि ॥ १८ ॥ तान्समं प्रापयामास क्षणाद्विध्याटवी भुवि । ज्ञानिना तां समाख्यातां वसतिं तत्र रक्षसः ॥ १९ ॥ ततोऽत्र राक्षसं क्रुद्धं ज्ञातवृत्तान्तनिर्गतम् । स शूरो योधयामास हरिस्वामि पुरस्कृतः ॥ २० ॥ क्षणेन च सुसंग्रामदुर्मदस्यापि रक्षसः । अर्धचन्द्रेण बाणेन शूरस्तस्याच्छिनच्छिरः ॥ २१॥ हते रक्षसि तां सोमप्रभां प्राप्त तदास्पदाम् | आदाय विज्ञानिरथेनाययुस्ते ततोऽखिलाः ॥ २२ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ८९
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy