SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८८ www.kobatirth.org नीतिकल्पतरुः । एषा प्राणैस्तु भृत्यानां भूपैरात्माभिरक्षते । तेषामर्थे त्यजन्देहं शूद्रकोऽत्र विशिष्यते ॥ ६७ ॥ इति स्वामिभृत्यानुकूल्य प्राज्ञधीकथनं नाम कुसुमम् । 1 Corrupt, Acharya Shri Kailassagarsuri Gyanmandir [३२] न्यायेनैतेनार्जनीया धीर्मनीषासौ मनीषि [ ३४ अ ] णाम् । न्यायेन चरतां लोक इहामुत्रच्छविर्नृणाम् | १ ॥ निदर्श्यते तथा चात्र न्यायनिर्णय गीतिका । उज्जयिन्याममात्योऽभूत्पुण्यसेनस्य भूपतेः ॥ २ ॥ हरिखामीति तस्याभूत्कन्या लावण्यविश्रुता । सोमप्रभेति सा मातृमुखेन भ्रातृतातकौ ॥ ३ ॥ आह शूरस्य वा ज्ञातुर्देया विज्ञानिनोऽपि वा । अहं नान्यस्य चेदर्थो जीवितेन ममास्ति वः ॥ ४ ॥ इत्थं त्रयोऽपि तचित्तास्ते यदा पितरं नृपः । प्रैषिषद्विग्रहायात' दाक्षिणात्यस्य संघये ॥ ५ ॥ कृतार्थश्च समायातो मार्गमध्ये स केनचित् । याचितो भूद्विजाग्र्येण श्रुतद्रूपसंपदा ॥ ६ ॥ कन्यापणं श्रावितोऽसौ विज्ञान्यस्मीति प्राह तम् दर्शयेति स तेनोक्तो रथं तत्क्षणकल्पितम् ॥ ७ ॥ आरोग्य दर्शयामास स्वर्गादींस्तं द्विजं द्विजः । दृष्ट्वा विज्ञानमेतस्य प्रतिशुश्राव तां सुताम् ॥ ॥ सप्तमेऽह्नि विवाहस्ते भवितेति पणे कृते । आययौ स्वगृहं देवाद्वरं मातापि चिन्वति ॥ ९ ॥ भ्रातापि पृथगेवैतौ पणपूर्वे परावुभौ । तस्मिन्नेव दिने वत्रे ज्ञानिनं शूरमेव च ॥ १० ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy