SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरः। AD मा साहसं कृथास्तुष्टाः सत्येनानेन ते वयम् । प्रत्युज्जी[३३ ब]वतु सापत्यदारो वीरवरोऽत्र सः ॥ ५४ ॥ श्रुत्वा तथैव तद्भूतं दृष्ट्वा छन्नः पुनश्च सः। पश्यनतृप्तस्तानासीदृष्टयाहर्षाश्रुपूर्णया ॥ ५५ ॥ ततः स तं तथा मत्वा नत्वा वीरवरोऽम्बिकाम् । आदाय पुत्रदारांस्तान्सिद्धकार्यों गृहं ययौ ।। ५६ ॥ तत्र प्रवेश्य पुत्रं तं भार्यां दुहितरं च ताम् । सिंहद्वारमगादाज्ञो रात्रौ तस्यां च पूर्ववत् ।। ५७ ।। राजाप्यलक्षितस्तत्र गत्वारुह्य च हर्म्यकम् । व्याहरच्च स्थितः सिंहद्वारे कोऽत्रेति पृच्छतः ॥ ५८ ॥ ततो वीरवरोऽवादीसैष तिष्ठाम्यहं प्रभो। देवादेशाद्गतश्चाइमभवं तां स्त्रियं प्रति ।। ५९ ॥ राक्षसी वचसाकापि दृष्टनष्टेवमागता । एतच्छ्रुत्वा वचस्तस्य राजा वीरवरस्य सः ॥ ६ ॥ सुतरां विस्मयाविष्टो दृष्टोदन्तो व्यचिन्तयत् । अहो समुद्रगम्भीरधीरसत्त्वा मनस्विनः ।। ६१ ॥ कृत्वाप्यनन्यसामान्यमुल्लेखं नोद्गिरन्ति ये। प्रातश्चास्थानसमये दर्शनोपगते स्थिते ।। ६२ ॥ तस्मिन्वीरवरे प्रीतस्तथा कृत्स्नं स भूपतिः । तदीयं रात्रिवृत्तान्तं मन्त्रिभ्यस्तदवर्णयत् ।। ६३ ॥ ददौ तस्मै सपुत्राय प्रीत्या वीरवराय सः। लाटदेशे ततो राज्यं सकर्णाटयुते नृपः ॥ ६४ ॥ ततोप्यतुल्यविभवान्योन्यस्योपकारिणौ । आस्तां तौ सुखं वीरवरशूद्रकभूपती ॥६५॥ तहि राजनेतेषु वीरः सर्वेषु कोऽधिकः । एतच्छ्रुत्वा स भूपालो वेतालं प्रत्युवाच तम् ॥ ६६ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy