SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७२ निशीथसूत्रे सूत्रम् -- जे भिक्खू उउवद्धियं वा वासावासियं वा सेज्जासंथारगं उब्वरिसिज्जमाणं पेहाए न ओसारेइ न ओसारेंतं वा साइज्जइ ॥ सू० ५२ ॥ छाया -यो भिक्षु ऋतुबद्धकं वा वर्षावासिकं वा शय्यासंस्तारकं उद्वर्ण्यमाणं प्रेक्ष्य माऽपसारयति, नाऽपसारयन्तं वा स्वदते ॥ सु० ५२ ॥ Acharya Shri Kailassagarsuri Gyanmandir चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'उउबद्धियं वा' ऋतुबद्धकं वामार्गशीर्षाद्याषाढपर्यन्ताष्टमासात्मके काले स्वेनात्मना परेण वा गृहीतम् । 'वासावासियं वा' वर्षावासिकं वा चातुर्मास सम्बन्धिकम्, उपभोगाय वर्षाकाले समानीय स्ववसतौ स्थापितम् । 'सेज्जासथारगं' शय्यासंस्तारकं पीठफलकतृणादिकमनावृतस्थाने प्रसारितं 'उव्वरिसिज्जमाणं' उद्व माणं वृष्टया क्लिद्यमानं जलेन आदभवन्तमित्यर्थः 'पेहाए' प्रेक्ष्य - दृष्ट्वा 'न ओसारई' नापसारयति - न दूरीकरोति, अनावृतप्रदेशादावृतप्रदेशे न करोति, न कारयति 'न ओसारेंतं वा साइज्जइ' नाऽपसारयन्तं - नोऽन्तः कुर्वन्तं स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ॥ ५२ ॥ अत्राह भाष्यकारः -- भाष्यम् - वासाजण सितं, सेज्जासंथारगं च पीढाइ । नो ओसारइ जो उ, पावइ सो आणभंगाइ ॥ छाया - वर्षाजलेन सिक्तं शय्यासंस्तारकं च पीठादि । नो अपसारयति यस्तु प्राप्नोति स आशाभङ्गादि ॥ अवचूरि : – 'वासाज लेणं' - इत्यादि । यो भिक्षुः ऋतुबद्धकाले वर्षाकाले वा अना - वृतस्थाने प्रसारितं यत् - शय्यासंस्तारकं पीठादि-पीठफलकतृणादिकं तद्यदि वृष्टिजलेन सिक्तं सिच्यमानं वा भवेत् तत् नाऽपसारयति नो दूरीकरोति वर्षाप्रदेशात् वर्षारहितप्रदेशे - वसतेरन्तर्भागे न करोति यः स आज्ञाभङ्गादिदोषान् प्राप्नोति ॥ सू० ५२ ॥ सूत्रम् -- जे भिक्खू पाडिहारियं सेज्जासंथारगं दोच्चंपि अणणुण्णवेत्ता बाहिं णी णातं वा साइज्जइ ॥ सू० ५३ ॥ छाया यो भिक्षुः प्रातिहारिकं शय्यासंस्तारकं द्विवारमपि - अननुज्ञाय्य बहिः निर्णयति निर्णयन्तं वा स्वदते ॥ सू० ५३ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'पाडिहारियं' प्रातिहारिकम् श्रावकगृहात्तस्य गृहपतेराज्ञया समानीय वसतौ स्थापितं - पुनः प्रतिज्ञातसमये प्रत्यर्पणीयम् For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy