SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्णिमाथापचूरिः उ०२ सू०५४ ५७ शय्यासंस्तारकस्यानाशाबहिर्नयनाविधिप्रत्यर्पणनि०४ 'सज्जासंधारगं' शय्यासंस्तारकम् यद्यन्यस्थाने नयनप्रयोजनं भवेत्तदा 'दोच्चंषि वित्तीयवारमपि 'अणणुण्णवेत्ता' अननुज्ञाप्य, स्वामिन आज्ञां विना यदि 'वाहिणीई बहिः उपश्रयावहिरन्यस्थाने निर्णयति, अयं भावः-अशय्यातरस्य-शय्यातरस्य वा शय्यासंस्तारकं पूर्ण मासकल्पे पुनर्द्वितीयवारं स्वामिनमननुज्ञाप्य वसतेर्बहिरुपाश्रयान्तरं नयति चेत् , तथा-'णीणेतवा' साइ. ज्जई' निर्णयन्तं यः स्वदतेऽनुमोदते, तस्य प्रायश्चित्तमिति ॥ सू० ५३ ॥ अत्राह भाष्यकार:भाष्यम्-भिक्खू जं बाहिरं णेइ, अणणुण्णाय संयरं । आणाभंगाइया दोसा, हवंति तस्स निच्छियं ॥ छाया- भिक्षुर्यद बहिर्नयति अननुज्ञाप्प संस्तरम् ।। आशामादिका दोषा भवन्ति तस्य निश्चितम् ॥ अवचूरि:-'भिक्खू अं' इत्यादि । यो भिक्षुर्यत् संस्तरं-संस्तारकं पीठफलकादिकं एतादृशं यत्-अमनुज्ञाप्य तत्स्वामिनो द्वितीयवारमाज्ञामगृहीत्वा शय्यासंस्तारकं वसतेबहिरन्यस्थले नयति, तस्य भिक्षुकस्याऽऽज्ञाभङ्गादिका दोषा निश्चितं भवन्ति, अत्र न कोऽपि संशय . इति ॥ सू० ५३ ॥ सूत्रम्-जे भिक्खू सागारियसंतियं सेज्जासंथारंग दोच्चंपि अणगुण्णवेत्ता बाहिं जीणेइ णीणेतं वा साइज्जइ ॥ सू० ५४ ॥ ... छाया-यो भिक्षुः सागारिकसत्कं शय्यासंस्तारकं द्वितीयमपि अननुशाप्य बहिनिर्णयति निर्णयन्तं वा स्वदते ॥ सू० ५४ ॥ . चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'सागारियसंतियं' सागारिकसत्कम् -गृहस्थसंबंधि 'सेज्जासंथारगं' शय्यासंस्तारकम् , यद्वसतौ वर्तमानं यदा तदा तत्स्वामिना गृहादागत्योपभुज्यमानम् ऋतुबद्धकाले वर्षाकाले वा कञ्चित्कालमुपभोगाय याचित. वान् तदि-उपाश्रयान्तरं प्रस्थातुकामः पुनर्दितीयवारमपि शय्यासंस्तारकस्वामिनमनिवेद्य 'बाहि णीणेई' बहिर्द्वितीयां वसतिं नयति । इत्थमेव-‘णीणेतं वा साइज्जइ' निर्णयन्तमन्यं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति । पूर्वसूत्रे- श्रावकगृहादानीतवस्तुन आज्ञां विना बहिनेयने दोषः कथितः, अस्मिन् सूत्रे तु-वसतिस्थितश्रावकसंबन्धिवस्तुनः आज्ञां विना बहिर्नयमे दोषः कथित इत्यनयोर्भेदः ॥ सू० ५४ ॥ सूत्रम्--जे भिक्खू पाडिहारियं सागारियसंतियं वा सेज्जासंथारगं दोच्चंपि अपणुण्णवेत्ता बाहिं णीणेइ । णीणेतं वा साइज्जइ ॥५५॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy