________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथ
छाया-यो भिक्षुः प्रातिहारिक-सागारिकसत्कं वा शच्यासंस्तारकं द्वितीयमपि अननुज्ञाप्य बहिः निर्णयति निर्णयन्तं वा स्वदते ॥ सू० ५५ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'पाडिहारियं' प्रातिहारिक उपभोगानन्तरं प्रत्यर्पणयोग्यम् 'सागारियसंतियं वा' सागारिकसत्कं-सागारिकसम्बन्धिकं वा 'सेज्जासंथारगं' शय्यासंस्तारकं-पीठफलकादिकं अपरिशाटिलक्षणं (५१ सू० द्र०) पीठफलकतृणादिकम् 'दोच्चंपि अणणुण्णवेत्ता' द्वितीयमपि वारमननुज्ञाप्य । प्रथमवारं तु मासकल्पशेषकालेऽनुज्ञापितम् , इदानी पुनर्बहिनिर्णयनेऽनुज्ञाप्यम् , किन्तु-एकदैवाऽनुज्ञाप्यानीतं शय्यासं. स्तारकं पुनर्द्वितीयोपाश्रये नयनसमयेऽननुज्ञाप्य नयति । तथा 'णीणेतं बा साइज्जई' अननुज्ञाप्यैव बहिणिर्णयन्तमन्यं स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ।
चतुष्पञ्चाशत्सूत्रे सागारिकाधीनवस्तुनो नयने दोषः कथितः । अत्र तु-पुनः प्रातिहारिकवस्तुनयने दोष इत्यनयोर्भेदः । मन्दमतीनां सुखबोधाय पुनः कथनम् ।। सू० ५५ ॥
सूत्रम्-जे भिक्खू पाडिहारियं सेज्जासंथारयं आदाए अपडिहट्ट संपव्वयइ संपव्वयंत वा साइज्जइ ॥ सू० ५६ ॥
छाया-यो भिक्षुः प्रातिहारिक शय्यासंस्तारकम्-आदाय अप्रतिहत्य संप्रब्रजति संप्रव्रजन्तं वा स्वदते ॥ सू० ५६ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः ‘पाडिहारियं सेज्जासंथारयं' प्रातिहारिकम्-प्रत्यर्पणयोग्यम् । अयं भावः-यद् मासकल्पादिकरणार्थ सागारिककुलादानीतं शय्यासंस्तारकम् , तत्-मासकल्पे परिपूर्णे सति यस्माद् गृहीतं पुनस्तस्मै प्रत्यर्पणीयम, एतादृशशय्यासंस्तारकस्य धारणं भवति तत्प्रातिहाय्ये शय्यासंस्तारकं कथ्यते, एतादृशं शय्यासंस्तारकं पीठफलकादिकं श्रावकसकाशात् 'आयाए' आदाय-गृहीत्वा-अनुज्ञापूर्वकं प्रतिगृह्ये. त्यर्थः 'अपडिहटुं' अप्रतिहृत्य अनर्पयित्वा, पूणे मासकल्पे पुनरर्पणमकृत्वैव यदि-'संपन्ययइ' संप्रव्रजति-विहारं करोति । तथा 'संपव्वयंत वा साइज्जइ' संप्रव्रजन्तमन्यं 'वा' स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ५६ ॥
सूत्रम्-जे भिक्खू सागारियसंतियं सेज्जासंथारयं आयाए अविगरण कटु अणप्पिणित्ता संपन्वयइ संपव्वयंतं वा साइज्जइ ।। मू० ५७||
छाया-यो भिक्षुः सागारिकसत्कं शय्यासंस्तारकमादायाऽविकरणं कृत्वा अन पयित्वा संप्रव्रजति संप्रव्रजन्तं पा स्वदते ॥ सू० ५७ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः सागारियसंतियं' सागारिकसत्कं-गृहस्थसम्बन्धिकम् ‘सेज्जासंथारयं' शय्यासंस्तारकम् 'आयाए' आदाय तदुपभोगं
For Private and Personal Use Only