SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावचूरिः उ० २ सू० ५४-६० प्रणष्टशय्याद्यगेवषणोपध्यप्रतिलेखननिषेधः ७५ कृत्वा विहारकाले 'अविगरणं कटु अणप्पिणित्ता' अविकरणं कृत्वा-अनर्पयित्वा, विकरणम् अन्यथा करणं, न तथा-अविकरणं-यथागृहीतं तथाकरणमित्यर्थः, तत् कृत्वा श्रावकात् पीठफलकतृणादिकं यथागृहीतं तथाकृत्वा-तथासंपादनपूर्वकम् , अनर्पयित्वा-अदत्त्वा मत्कुणादिजीवसहितमेव पीठफलकादिकं तृणादिसंस्तारकं च दत्त्वेति भावः 'संपन्बयइ' संप्रव्रजति-विहारं करोति, तथा 'संपव्ययंतं' संप्रव्रजन्तमन्यम् 'साइज्जइ' स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ५७ ॥ मूत्रम्--जे भिक्खू पाडिहारियं वा सागारियसंतियं वा सेज्जासंथारगं विप्पणटुं न गवेसइ न गवसंतं वा साइज्जइ ॥ सू० ५८॥ छाया-यो भिक्षुः प्रातिहारिकं वा सागारिकसत्कं वा शय्यासंस्तारकं विप्रणष्टं न गवेषयति न गवेषयन्तं वा स्वदते ॥ सू० ५८ ॥ ___ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'पाडिहारियं वा' प्रातिहारिकं-प्रत्यर्पणाहम् 'सागारियसंतियं' सागारिकसत्कम् सागारिकसम्बन्धिकं सांप्रतं श्रमणाधीनम् 'सेज्जासंथारगं' शय्यासंस्तारकं-पीठफलकादिकं रक्ष्यमाणमपि 'विप्पणी' विप्रणष्टम्-चौरादिनाऽपहृतम् तद्यदि 'ण गवेसई' न गवेषयति, इतस्ततोऽन्यान्यं न पृच्छति तद्रूपां गवेषणां न करोतीत्यर्थः, तथा 'न गवसंतं साइज्जई' न गवेषयन्तमन्यं स्वदतेऽनुमोदते स प्रायश्चित्तभार भवति ॥ सू० ५८ ॥ सूत्रम्--जे भिक्खू इत्तरियपि उवहिं ण पडिलेहइ ण पडिलेहंत वा साइज्जइ ॥ सू० ५९॥ ___ छाया यो भिक्षुः इत्वरिकमपि उपधिं न प्रतिलेखयति न प्रतिलेखयन्तं वा स्वदते ॥ सू० ५९ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'इत्तरियपि उवहि' इत्वरिक स्वल्पमप्युपधि वस्त्रपात्रादिकम् , स त्रिधा-जघन्य-मध्यमो-स्कृष्टभेदात् । तत्र-जघन्यो मुखवत्रिका वस्त्रखण्डं वा, मध्यमः-प्रावरणचोलपट्टकादिरूपः, उत्कृष्टः-सर्व वस्त्रपात्रादिकम् , तस्मिन् स्वल्पमपि मुखवस्त्रिकारूपमपि 'न पडिलेहइ' न प्रतिलेखयति तस्य प्रतिलेखनां न करोति उभयकालं सर्वभाण्डोपकरणादीनाम् , तेन प्रमादी भवति । प्रमादप्रभावात् संयमक्रियां विस्मरति । एकस्यां संयमक्रियायां विस्मृतायामन्यापि स्वाध्यायादिक्रिया विस्मृता भवति, ततश्चारित्रभ्रंशः, चारित्रभ्रंशात्-चातुर्गतिकसंसारभ्रमणमनन्तजन्ममरणप्राप्तिः, तस्मादुभयकालं सर्वभाण्डोपकरणानां प्रतिलेखना कर्त्तव्या। ‘ण पडिलेहंतं वा साइज्जई' न प्रतिलेखयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति ।। सू० ५९॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy