SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावचूरिः उ० २ सू० ५०-५३ शय्यासंस्तारकस्य प्रत्यर्पणसंरक्षणादिविधिः ७१ बर्षादिकारणगौरवात् पञ्चदशरात्रपर्यन्तं व्यवहर्तुमुपभोक्तुं शक्नोति कथञ्चित्, किन्तु - ' परं दसरायकपाओ' परमधिकं दशरात्रकल्पात् यदि - 'उवाइणावेइ' अतिक्रामयति-उल्लङ्घयति 'उवाइणावेंतं वा साइज्जइ' अतिक्रामयन्तं वा यो यदा स्वदतेऽनुमोदते स तदा प्रायश्चित्तभाग् भवति । शय्या संस्तारकं द्विविधं भवति - परिशाटि अपरशाटि च । तत्र - कुशतृणादिनिर्मितस्य यस्योपभोगकाले कश्चिदंशः परिशटति - नश्यति तत् परिशाटि, यस्य च वंशकाष्ठादिनिर्मितस्योपभोगकाले किञ्चिन्मात्रोऽप्यंशो न परिशटति - न नश्यति तदपरिशाटि - इति बोध्यम् । परिशाटि च साधूनां नो कल्पते यतस्तद्ग्रहणे अनेके जीववधादयो दोषाः, तेन च संयमात्मविराधना भवति । परिशटितपीठफलकादिषु शुषिरस्थितजीवानां विराधना भवति, शटितं तत् त्रुट्यति तदा आत्मविराधनाऽपि भवति । तथा--आज्ञाभङ्गानवस्थामिथ्यात्व संयमात्मविराधनं च भवति । तीर्थकृतामाज्ञाभङ्गस्तैर्निषिद्धत्वात्, अनवस्था च-अन्यान्यकरणसंभवात्, लोके - मिध्यात्वमपि जायते जीवविराधकवस्तूपभोगात् । संयमविराधनमित्यम्-- शुषिरादिषु कुन्धुकादिसुक्ष्मजीवाः संमूच्छिता भवन्ति । तत्र परिशाटिशय्या संस्तारकमास्तीर्य स्वपतः कुन्थुकादिजीवा विराधिता भवेयुरिति संयमविराधनम् । तथा--अन्येऽपि बहवो जीवाः पिपीलिकादयः वर्षायां शुषिरे संमूच्छिता भवन्ति इत्येवमपि संयमविराधनम् । आत्मविराधनं चेत्थम् - वर्षायां तत्र शयने कृते शुषिरे स्थितः सर्पादिर्दशति - इत्यात्मविराधनम्, तत्र शुषिर सद्भावात् पनक: ( लीलनफूलन) अपि संमूर्च्छितो भवति । एते प्राणविघातकादयो दोषाः । तथा तद्गन्धादुपधौ यूकादिजीवा भवन्ति । इत्यादयो दोषाः परिशा टिशय्या संस्तारकग्रहणे भवन्ति । यस्मादेते दोषाः तस्मात् - - कारणात् वर्षाकाले परिशाटि शय्या संस्तारकं ग्रहीतव्यम् । तदपि विधिपूर्वकं ग्रहणं कर्त्तव्यम् । यदा खलु पीठफलकादिकं लभ्यते-- तदैवं वक्तव्यम् -- भोः श्रावक ! अस्य शय्यासंस्तारकस्योपभोगानन्तरं पुनरर्पयिष्यामेि प्रातिहारिकं च ग्रहिष्यामि नियमतोऽमुकेन कालेनाऽर्पयिष्यामि । यद्येवं श्रावकः स्वीकरोति तदा ग्रहीतव्यम् । अथ यदि कदाचिदेवं न स्वीकरोति श्रात्रकः तदाऽन्यदेव संसारकादिकं मार्गयितव्यम् । यदि गृहीतं च शय्यासंस्तारकादिकं नेतु न शक्यते तदा-- छन् प्रदेशे स्थापयितव्यम् येन वर्षाजलेन प्लावितं न भवेत् । एवं दाता ( श्रावकः ) प्रष्टव्यः मदीये कार्ये समाप्ते शय्यासंस्तारकं मया कस्मे - अर्पणीयम् ३ श्रावको वदति मह्यमेव दात्रेऽर्पणीयम् । तदा पुनः साधुर्वदति-- यदि त्वं कदाचिद् दृष्टो न भवेः तदा कस्मै अर्पणीयम् ? श्रावको वदति - अत्रैव गृहे भवद्भिरानेतव्यम् । तदा वक्तव्यं साधुना--कस्मिन् स्थाने स्थापयिष्यामि ! अथ स वदेत्--अत्रैव गृहे प्रच्छन्नप्रदेशे स्थापयितव्यम् । अथवा एवं वदेत् यस्मात् - स्थानाद गृहीतं तत्रैव स्थापनीयम् । एवंप्रकारेण गृहीतशय्यासंस्तारकादिविषये भणितव्यम् ॥ सू० ५१ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy