SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vo निशीथसूत्रे याचते, तस्याज्ञाभङ्गादिका दोषा भवन्ति । तथा - पूर्वपश्चात्संस्तुते उद्गमैंषणादिदोषा भवन्ति, एवमुद्गमादिदोषाः श्रावकेऽपि भवन्ति । तथा पूर्वपश्चात्संस्तुतेऽपि एते दोषाः- ये श्रावकस्य पूर्वपश्चात्संस्तुतास्ते परगृहेषु - अवभाषमाणा एवं कुर्युः:- एष नित्यमस्माकमेव गृहे तिष्ठतीति कृत्वा, उद्गमादिदोषदुष्टमप्यशनादिकं करिष्यन्ति परुषादिकं च वदेयुः । यस्मादिमे दोषा भवन्ति तस्मात्सागारिकनिश्रया पूर्वपश्चात्संस्तुतस्य सागारिकस्य निश्रया वा श्रावक कुलेऽवभाण्याऽवभाष्याशनादीनां याचना न कर्त्तव्या । सागारिक स्याहारादिग्रहणं प्रागेव निषिद्धं पुनरत्र सागारिकनिश्राघटकस्य सागारिक शब्दस्य कोऽर्थः ? इत्यत आह-अत्र सागारिकशब्देन सामान्यो गृहस्थो बोध्यः || सू० ४९ ॥ सूत्रम् —— जे भिक्खू उउबद्धियं सेज्जासंथारगं परं पज्जोवसणाओ उवाइणावेइ उवाइणावेंतं वा साइज्जइ ॥ सू० ५० ॥ छाया - यो भिक्षुः ऋतुबद्धकं शय्यासंस्तारकं परं पर्युषणातः अतिक्रामयति अतिकामयन्तं वा स्वदते ॥ सू० ५० ॥ " चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'उउबद्धियं सेज्जासंथारगं' ऋतुबद्धकम् - ऋतुबद्धकालसम्बन्धि शय्यासंस्तारकम् पीठफलकतृणादिकं, शय्या च संस्तारकश्च, अनयोः समाहारे शय्यासंस्तारकम् तत्र शय्या शरीरप्रमाणा, संस्तारकः सार्द्धहस्तद्वयप्रमाणः । ऋतुबद्धे - मार्गशीर्षाद्याषाढपर्यन्ताष्टमासात्मके शेषकाले गृहीतं शय्यासंस्तारकम् शेषकाले समानीतं शय्यासंस्तारकं 'परं पज्जोवसणाओ' पर्युषणातः परं संवत्सरीदिनतः परम् 'उवाइणावे ' अतिक्रामयति उल्लङ्घयति यस्माद् गृहोतं तस्मै य: समर्पणकालस्तमुल्लङ्घयति, ऋतुबद्धकालगृहीतशय्यासंस्तारकं गृहस्थाय न समर्थ पर्युषणानन्तरं तस्योपभोगं करोतीत्यर्थः, अतिकामयन्तं वा स्वदते स प्रायश्चित्तभाग् भवति । संवत्सरीदिनतः प्रागेव तद् भोक्तव्यम्, संवत्सरीदिने तत् तत्स्वामिने समर्पणीयमेवेति भावः । यदि तस्योषभोगकारणं स्यात् तदा तदुपभोगाय तत्स्वामिन आज्ञा पुनर्ग्रहीतव्येति विवेकः ॥ सू०५० ॥ सूत्रम् — जे भिक्खू वासावासियं सेज्जासंथारयं परं दसरायकप्पाओ उवाइणावेइ उवाइणावेंतं वा साइज्जइ || सू० ५१ ॥ छाया - यो भिक्षुः वर्षावासिकं शय्यासंस्तारकं परं दशरात्रकल्पात् अतिक्रामयति अतिक्रामयन्तं वा स्वदते ॥ सू० ५१ ॥ चूर्णि: - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः वासावासियं' वर्षावासिकं वर्षाकाले उपभोगार्थमानीतम् तत् - 'सेज्जासंथारगं' शय्यासंस्तारकम् वर्षाकाले व्यतीतेऽपि For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy