________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावचूरिः उ०२ सू०४९ सागारिकनिश्रयाऽवभाष्य भिक्षायाचननिषेधः ६९ विसई' अनुप्रविशति शय्यातरमज्ञात्वा भिक्षार्थं निर्णयात्पूर्वमेव शय्यातरकुलं प्रविशति, 'अणुप्पविसंतं वा साइज्जइ' अनुप्रविशन्तमन्यं स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ।
न दोषभागी प्रभवामि तस्माज्ज्ञात्वा च पृष्ट्वाऽथ गवेषयित्वा ।
ततो विशेत् श्रावकगेहमध्यं, मर्यादितः शास्त्रविलोकनेन॥१॥ इति ।। सू० ४१॥ सूत्रम्-जे भिक्खू सागारियणीसाए असणं वा पाणं वा खाइमं वा साइमं वा ओभासिय-ओभासिय जायइ जायंतं वा साइज्जइ ॥ सू० ४९॥
छाया-यो भिक्षुः सागारिकनिश्रया-अशनं वा पानं वा खादिमं वा स्वादिम वा-अवभाष्याऽवभाष्य याचते याचमानं वा स्वदते ॥ सू० ४९॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'सागारियणीसाए' सागारिकनिश्रया, सागारिकः-श्रावकः, तस्य निश्रा-परिचयरूपा, तया 'अहममुकस्य वसतौ स्थितोऽस्मि' इति परिचयरूपया, अथवा स्वजनस्य कस्यचिद् गृहे शय्यातरं स्थितं दृष्ट्वा-'अयं मे भिक्षां दापयिष्यति' तदाश्रयेण 'असणं वा पाणं वाखइमं वा साइमं वा' अशनं पानं खाचं स्वाद्यम्-अशनादिचतुर्विधाहारं 'ओभासिय-ओभासिय' अवभाष्यावभाष्य विशिष्टवचनरचनापूर्वकम् उच्चैःस्वरेण वदित्वा-वदित्वा 'जायइ' याचते याचनां करोति-कारयति । 'जायंतं वा साइज्जई' एवं प्रकारेण याचमानमनुमोदते स प्रायश्चित्तभाग् भवतीति ।। सू० ४९॥
अत्राह भाष्यकार:भाष्यम्-सयणो सावगस्सायं, तत्थ दट्टण सावर्ग।
दावेज्जा एस मे भिक्खं,-तिकटु सोऽवभासइ । छाया-स्वजनः श्रावकस्यायं तत्र दृष्ट्वा तु श्रावकम् ।
दापयेदेष मे भिक्षा-मितिकृत्वाऽवभाषते ॥ अवचूरि:-'सयणो'- इत्यादि । श्रावकस्य प्रतिष्ठितोदारचित्तस्य यः स्वजनः आत्मीयो जनः स यत्र प्राङ्गणादौ तिष्ठति, तत्र प्राङ्गणे श्रावकं शय्यातरश्रावकं दृष्ट्वा एष मह्यमस्मात्परिजनसकाशाद् भिक्षां दापयेत् , इतिकृत्वा तन्निश्रयोच्चैःस्वरेण तमेव सागारिकभवभाषते १, तव स्वजनोऽयमतस्त्वं दापय एतस्मादशनादिकम् २, यद्वा-सागारिकस्य-पूर्वपश्चास्संस्तुतस्य निश्रायां भाषते-यद्स्यैव गौरवेणायं मे भिक्षां दास्यतीति तं वाऽवभाषते ३, मम चारित्राचारसंपन्नस्य प्रभावेण वा दापय ४ । एभिश्चतुभिरपि प्रकारैयों भिक्षुरशनादिकमवभाष्य
For Private and Personal Use Only