________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिशीथसूत्रे अशन-पान-खाद्य-स्वाध-भेदात् । षइविधो वा भवति-अशनादयश्चत्वारः द्वौ उपधिविषयकोऔधिकोपधिः औपग्रहिकोपधिश्चेति तृतीयं द्वारम् ३ । 'अशय्यातरकः कदा' इति चतुर्थ द्वारमाहयदा-वसतिं परित्यज्य गृहस्वामिन आज्ञा परावर्त्य स्थानान्तरं करोति तदा-सोऽशय्यातरो भवतिइति चतुर्थं द्वारम् ४ । 'त्याज्योऽसौ कस्य विज्ञेयः' इति पञ्चमं द्वारमाह-साधुगुणवर्जितानां लिङ्गमात्रधारिणां यः शय्यातरो भवेत् , ते तस्य शय्यातरस्य पिण्डं गृह्णीयात् न वा गृह्णीयात् तथापि स शय्यातरः साधूनां त्याज्य एव भवतीति पञ्चमं द्वारम् ५ । 'दोषाः पिण्डग्रहे च के तस्य सागारिकस्य पिण्डग्रहणे के दोषा इति षष्ठं द्वारमाह-शय्यातरपिण्डस्तीर्थकरैः ऋषभादिभिः प्रतिषिद्धः तस्मात्-शय्यातरपिण्डो न ग्रहीतव्यः, इति षष्ठं द्वारम् ६ । 'अनेकेषु च०' इत्यादि, अनेकस्वामिकेषु वसत्यादिषु “एकस्यैवाज्ञा ग्रहीतल्या" इति सप्तमं द्वारम् ७। शय्यातरस्य सविस्तरवर्णनं दशवैकालिकसूत्रस्य मत्कृतायामाचारमणिमञ्जुषाव्याख्यायां विलोकनीयम् ॥ सू० ४६॥
सूत्रम्-जे भिक्खू सागारियपिंडं भुंजइ भुंजतं वा साइज्जइ ।सू०४७) छाया-यो भिक्षुः सागारिकपिण्डं भुङ्क्ते भुञ्जन्तं वा स्वदते ॥ सू० ४७॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'सागारियपिंडं' सागारिकपिण्डं शय्यातरस्य भक्तपानादिकम् 'मुंजइ' भुङ्क्ते-शय्यातरपिण्डस्योपभोगं करोतीत्यर्थः । भुजतं वा साइज्जइ' भुञ्जन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभाग् भवति ।। सू० ४७।।
सूत्रम्--जे भिक्खू सागारियकुलं अजाणिय अपुच्छिय अगवेसिय पुवामेव पिण्डवायपडियाए अणुप्पविसइ अणुप्पविसंत वा साइज्जइ ॥सू० ४८॥
छाया-यो भिक्षुः सागारिककुलमक्षात्वा-अपृष्ट्वा-अगवेषयित्वा पूर्वमेव पिण्डपातप्रतिक्षयाऽनुप्रविशति-अनुप्रविशन्तं वा स्वदते ॥ सू० ४८॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे मिक्खू' यो भिक्षुः 'सागारियकुलं' सागारिककुलं-शय्यातरगृहम् , 'अजाणिय' अज्ञात्वा-किमिदं श्रावकस्य गृहम्-अन्यस्य वेति निश्चयमकृत्वा 'अपुच्छिय' अपृष्ट्वा-अमुकशय्यातरगृहं क्व वर्तते, इति समीपवर्तिश्रमणादिभ्यः पृच्छामकृत्वा 'अगवेसिय' भगवेषयित्वा-शय्यासरः कस्मिन् स्थाने वसति-इति गवेषणामकृत्वा । तत्र-- पूर्वदृष्टे पृच्छा, अपूर्वदृष्टे गवेषणा, इति पृच्छा-गवेषणयोर्भेदः । 'पुव्वामेव' पूर्वमेव-शय्यातरगृहादिगवेषणाकरणतः-प्रागेव 'पिंडवायपडियाए' पिंडपातप्रतिज्ञया, तत्र-पिण्डोऽशनादिकम् गृहिणा दीयमानस्याहारस्य पात्रे पातः प्रक्षेपो ग्रहणं, तस्य प्रतिज्ञया पिण्डग्रहणबुद्धयेत्यर्थः, 'अणुप्प
For Private and Personal Use Only