________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशोथसूत्रे सूत्रम्-जे भिक्खू अन्नयरं पाणगजायं पडिग्गाहित्ता पुष्पगं-पुप्फगं आवियइ कसायं-कसायं परिहवेइ परिहवेतं वा साइज्जइ ।। सू० ४४ ॥
छाया–यो भिक्षुः अन्यतरत् पानकजातं प्रतिगृह्य पुष्पकं पुष्पकं आपिबति, कषायं कषाय : परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ४४ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अन्नयरं' अन्यतरत् अन्यतरपदग्रहणात्-अनेकप्रकारकम् , मधुररसयुक्तं कषायरसयुक्तं च, खण्ड-गुड-शर्करा-दाडिमी- मृद्वीकाऽऽमलक-हरीतकी-चिञ्चादिरसरूपं द्वयमपि 'पाणगजायं' पानकजातं, जातशब्दग्रहणात् प्रासुकं 'पडिग्गाहित्ता' प्रतिगृह्य-विधिपूर्वकं गृहीत्वा 'पुप्फगं-पुप्फगं आवियइ' पुष्पकं पुष्पकमापिबति, तत्र-पुष्पकं- शुभवर्ण-गन्ध -रसस्प : प्रधानम् अच्छं मनोज्ञमित्यर्थः । एतादृशमुत्तमोत्तम पानकजातमापिबति, तथा-'सायं-कसायं' कषायं कषायं कलुषितं शुभवर्ण-गन्ध-रस स्पर्शः प्रतिलोमं-कलुषितमप्रधानं वा पानकजातम् 'परिद्ववेई' परिष्ठापयति-भूमौ निक्षिपति ।
उक्तञ्च पुष्पककषायविषयेयच्च गन्धरसोपेत-मच्छं तत् पुष्पकं भवेत् ।
दुर्गन्धमरसं यच्च, कषायं कलुषं च तत् ॥१॥ इति ।
अनेकप्रकारकानीतपानकमध्यात् यत्समीचीनं तत्पिबति, यच्चाऽसमीचीनं तनिक्षिपति । 'परिहवेत वा साइज्जइ' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति ।
साधुलक्षणमेतत् तथाहि
मा भूयासमहं साधुः, प्रायश्चित्ती कदाचन । मन्यते सोऽसमीचीनं, भुक्त्वा भुङ्क्ते तथेतरत् ॥१॥ अत्र भाष्यकारोऽप्याहभाष्यम् - वण्ण-गंध-रसोवेयं, दव्वं तं पुप्फनामगं ।
दुन्भिगंधाइसंजुत्तं, कसायं तं हवे पुणो ॥ कसायं पुव्वमापेज्ज, पुप्फगं तयणंतरं ।।
एसा सत्यविही वुत्ता, अणंतवरनाणिहिं ॥ छाया-वर्ण-गंध-रसोपेतं द्रव्यं तत्पुष्पनामकम् ।
दुरभिगन्धादिसंयुक्तं कषायं तद् भवेत्पुनः ॥ कषायं पूर्वमापेयं पुष्पकं तदनन्तरम् । पष शास्त्रविधिः प्रोक्तः अनन्तवरशानिभिः॥
For Private and Personal Use Only