SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाग्यावचूरिः उ० २ सू०४५ सांभोगिकपृष्छां विनाऽधिकाहारपरिष्ठापननिषेधः ६५ अवरिः - 'वण्णगंध' इत्यादि । यत्पानकनातं वस्तु, वर्ण-गन्ध-रसोपेतं-सुवर्णेन सुगन्धेन सुरसेन मधुरादिना युक्तं भवेत् तद्-द्रव्यं पुष्पसंज्ञकं भवति । तथा-यपानकजातं दुर्गन्धादि. विशिष्टं दुर्वर्णेन कुत्सितगन्धेन कुरसेन कठोरस्पर्शेन युक्तं सत् कषाय-कलुषितं भवेत् । तत्र कषायं पानकजातं पूर्वमापेयं, तदनन्तरं पुष्पकं पिबेत् , एष शास्त्रविधिः अनन्तवरज्ञानिभिस्तीर्थकरैरुक्तः, अतः पुष्पकं कषाय चैतद्वयमप्यानीय यत्पुष्पकं तत् पीत्वा यत्कषायं तस्य परिष्ठापनं न कुर्यात् , किन्तु प्रथमं पुष्पकं पीत्वा पश्चात् कषायं पिबेत् । उक्तञ्च - शास्त्रकर्तुश्च मर्यादा, कषायं प्रथमं पिबेत् । आशाभङ्गादिकान् दोषान् पश्यन् पश्चात्तु पुष्पकम् ॥१॥ अन्यथा प्रायश्चित्तभाग् भवेत् ॥ सू० ४४ ॥ सूत्रम्---जे भिक्खू मणुण्णं भोयणजायं पडिग्गाहेत्ता बहुपरियावन्नं सिया अदूरे तत्थ साहम्मिया संभोइया समणुन्ना अपरिहारिया संता परिवसति ते अणापुच्छिय अणिमंतिय परिट्ठवेइ परिहवेंतं वा साइज्जइ ॥ __छाया–यो भिक्षुर्मनोझं भोजनजातं प्रतिगृह्य बहुपर्यापन्नं स्यात् अदूरे तत्र सार्मिकाः सांभोगिकाः समनोज्ञा अपरिहार्याः सन्तः परिवसन्ति तान् अनापृच्छय अनिमन्त्र्य परिष्ठापयति, परिष्ठापयन्तं वा स्वदते ॥ सू० ४५॥ । चूर्णी-'जे भिक्खू' इत्यादि। 'जे भिक्खू' यो भिक्षुः 'मणुण्णं भोयणजायं' मनोज्ञं भोजनजातम्-शुभ-वर्ण-गंध-रस-स्पर्श समन्वितमुत्तमभोजनजातम् अनेकप्रकारकमाहारादिकम् 'पडिम्गाहेत्ता' प्रतिगृह्य-आनीय भुक्ते । तच्च यदि 'परियावन्न सिया' पर्यापन्नं स्यात्-प्रयोजनतोऽधिकं भवेत् 'अदूरे तत्थ साहम्मिया' अदूरे तत्र-न दूरमदूरम्-आसन्नम् क्रोशद्वयान्तरावधौ ग्रामादौ साधर्मिकाः-समानधर्माचरणशीलाः साधवः 'संभोइया' सांभोगिकाः, यैः सहकमण्डल्यामाहारादिकं कर्तुं कल्पते तथाविधाः साधवः 'समणुन्ना' समनोज्ञाः उद्यतविहारिणः, एतादृशाः पूर्वोक्तविशेषणविशिष्टाः सन्तोऽपि सातिचारत्वेनाऽदेयाहारा भवेयुस्तत्राह-'अपरिहारिया' अपरिहार्याः, निरतिचारचारित्रत्वेनापरित्याज्याः, निरतिचारा इत्यर्थः । एतादृशाः साधवो यथासन्ने 'संता' सन्तः विद्यमानाः 'परिवसंति' क्रोशद्वयपरिमिते ग्रामादौ तिष्ठन्ति तदा 'ते अणापुच्छिय' तान्-अनापृच्छयाऽपृष्ट्वा 'अणिमंतिय' अनिमन्त्र्य, तेषां निमन्त्रणमकृत्वा, 'मत्सविधे-एतावदधिकं जातं, तस्य यदि भवतां प्रयोजनं भवेत्-तदा-गृहन्तु भवन्तः' एवंप्रकारेण तेषामामन्त्रणमकृत्वा अपृष्ट्वेत्यर्थः यदि 'परिहवेति' परिष्ठापयन्ति, यद्वा 'परिहवतं साइज्जइ' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवतीति ।। सू० ४५ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy