SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावचूरिः उ० २ सू० ४३-४४ दुरभिकषायभक्तपानपरिष्ठापननिषेधः ६३ सूत्रम्-जे भिक्खू अन्नयरं भोयणजायं पडिग्गाहित्ता सुभि भुंजइ दुभि परिहवेइ, परिहवेतं वा साइज्जइ ।। सू० ४३ ॥ छाया-यो भिक्षुः अन्यतरत् भोजनजातं प्रतिगृह्य सुरभि भुङ्क्ते दुरभि परिष्ठापयति, परिष्ठापयन्तं वा स्वदते ॥ सू० ४३॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अन्नयरं भोयणजायं अन्यतरद् भोजनजातम्-अनेकप्रकारकं खादिमस्वादिमादिभेदभिन्नं विविधं भोजनजातं भक्तादिकम् 'पडिम्गाहित्ता' प्रतिगृह्य, यदि श्रावकादिगृहादनेकप्रकारकं सुस्वादु दुःस्वादु वा भोजनादिकमानीय तन्मध्यात् 'मुभि मुंबई' सुरभि मनोज्ञं विशिष्टवर्ण-गन्ध-रस-स्पर्शयुक्तं भोजनं भुङ्क्ते । दुभि परिहवेइ' दुरभि-दुरभिगधन्युक्तं दुर्वर्ण-प्रशस्तवर्णरहितं दूरसं-प्रशस्तरसवर्जितं दुःस्पर्श-प्रशस्तस्पर्शहीनं भोज्यं परिष्ठापयति-गादिषु प्रक्षिपति, 'परिहवेतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदते । यो भिक्षुः श्रावकगृहादानीताहारमध्यात् सुस्वादूद्धृत्य भुङ्क्ते, दुःस्वादु परित्यजति, एवं कुर्वन्तमनुमोदते वा स प्रायश्चित्तभाग् भवति ॥ सू० ४३ ॥ अत्राह भाष्यकारःभाष्यम्-वण्ण-गंध-रसेहिं जं, फासेहिं भोयणं जुधे । मुभि तं चेव जाणिज्जा, इयरं इयरं हवे ॥ छाया-वर्ण-गन्ध-रसैर्यत्-स्प®भोजनं युतम् । ___ सुरभि तदेव जानीयात् इतरदितरद् भवेत् ॥ अवचूरिः--'वण्ण-गंध' इत्यादि । यद्भोजनं भोक्तुं योग्यमोदनादिकम् , विलक्षणवर्णेन-श्वेतादिना, विलक्षणेन गन्धेन-सौरभ्यादिना भोजनोपयुक्तेन, मनोज्ञेन-रसेन मधुरादिना, मनोज्ञस्पर्शेन-कोमलादिस्पर्शयुक्तेन, एभिर्वर्णादिभिर्युक्तं यद् भोजनं तदेव सुरभि विजानीयात् । एतादृशं भोजनं सूत्रघटकसुरभिव्यपदेशं लभते इत्यर्थः 'इयरं इयरं हवे' इतरदितरद्भवेत् , यद्भोजनमितरत्-पूर्वोक्तविलक्षणवर्णादिना नोपेतं तद् भोजनमिरतरत् , दुरभि-दुर्वर्णगन्धादियुक्तमिति ज्ञेयम् । अथवा-रसोपेतमपि भोजनं दुरभिगन्धयुक्तं न प्रशस्तम् , तथा-अरसालं-शुष्क भोजनं सुरभिगन्धयुक्तं सुरभि भवतीति । अत्र-सुरभि-दुरभि, एतदुभयप्रकारकमपि भोजनमेकतः प्रत्येक वा गृहीत्वा सुरभिभोजनं भुङ्क्ते, दुरभि च परिष्ठापयति, तस्यैवं कुर्वतो यतेः प्रायश्चित्तं भवति । तथा-आज्ञाभङ्गानवस्थामिथ्यात्वात्मसंयमविराधनाः, यस्मादेते दोषा भवन्ति, तस्माद् दुरभिभोज्यस्य वस्तुनः पूर्व भोजनं कर्त्तव्यम् , तदनन्तरं सुरभिभोजनं कर्त्तव्यमिति ॥ सू० ४३ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy