SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पणिभाष्यावचूरिः उ० २ सू० ३७-३८ नैत्यिकवास-पुरस्पञ्चासंस्तवनिषेधः ५५ छाया-पिण्डो भक्तार्थको ज्ञेय-स्तदर्ध वाऽपार्धकः । भागस्त्रिभागस्तस्या ऊनार्धः स न्याख्यातः ॥ पिण्डे नैत्यिकेऽपार्धे भागे ऊनाईके तथा । एष एव गमो सेयः सर्वदा शास्त्रसंमतः ॥ अवचूरिः – 'पिंडो भत्तद्वगो'-इत्यादि । पिण्डः-पिण्डशब्दोऽत्र भक्तार्थकः भक्तार्थवाचको ज्ञेयः, ततः पिण्ड इति भक्तमित्यर्थः, तस्य यदद्धं सोऽपार्द्धभागः प्रोच्यते, भागः त्रिभागः, तथा तस्यापि यद् अद्वै स ऊनार्द्धः ऊनार्द्धभागः । ततो नैत्यिके पिण्डे, तथा सूत्रघटकेऽपार्धे तथा भागे, तथा ऊनार्धके सर्वत्र एष एव गमोऽग्राह्यरूपः तीर्थकरगणधरैः सर्वदा-सर्वकालं व्याख्यातः कथितः, अत एव स शास्त्रसम्मतो ज्ञेयः । तत्र-गमस्वरूपमेव दर्शयति-'पिंडे' इत्यादि । सूत्रघटकपिण्डपदं भक्तार्थकं भवति, पिण्डो भक्तार्थ इति पर्यायः । यथा चतुस्त्रिंशत्सूत्रघटकं 'अवइद' इति पदं पिण्डार्धबोधकम् , पिण्डस्याभाग इत्यर्थः । भागपदम्-पञ्चत्रिंशत्सूत्रघटकपिण्डस्य त्रिभागबोधकम् । तथा पत्रिंशत्सूत्रघटकम् "ऊणइहभाग'-पदं त्रिभागस्याप्यूनाऽर्धभागबोधकं ज्ञातव्यम्, एतत्सर्व दानाद्यर्थ निष्कासितविषयकं बोध्यम् , तद्ग्रहणे साधुर्दोषभाग भवति ॥ सू० ३६ ॥ सूत्रम्-जे भिक्खू णितियं वासं वसइ वसंतं वा साइज्जइ ॥ सू० ३७। छाया-यो भिक्षु३त्यिकं वासं वसति वसन्तं वा स्वदते ॥ सू० ३६॥ चूणीं- 'जे भिक्खू इत्यादि । 'जे भिक्खू' यो भिक्षुः 'णितियं वासं' नैत्यिकं वासं वर्षाकालवर्जिते ऋतुबद्धकालातिरिक्तकालेऽप्यकारणमेकस्मिन् स्थाने नित्यवासम् 'वसई' वसतिवासं करोति कारयति 'वसंतं वा साइज्जई' वसन्तं वा स्वदतेऽनुमोदते, स हि शीतकालाद्वर्षकालात , परतः कारणेऽसति । प्रायश्चित्ती वसन्नित्यं, वसतो वाऽनुमोदनात् ॥१॥ इति ॥ सू०३७॥ सूत्रम्-जे भिक्खू पुरेसंथवं पच्छासंथवं वा करेइ करेंतं वा साइज्जइ। छाया—यो भिक्षुः पुरःसंस्तवं पश्चात्संस्तवं वा करोति-कुर्वन्तं वा स्वदते ॥३८॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिभुः 'पुरेसंथव' पुरःसंस्तवम् वस्त्रपात्रादिदातुर्दानात्पूर्व-पूर्वकालमेव संस्तवम् प्रशंसनम्-परिचयं वा 'संस्तवः स्यात्परिचयः' इति वचनात् , 'पच्छासंयवं' पश्चात्संस्तवम् , वस्त्रपात्रादिदानानन्तरकाले संस्तवं प्रशंसनम्परिचयं वा 'करेई' करोति 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते-अनुभोदते स प्रायश्चित्तभाग् भवति । For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy