SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशीथसूत्र अवचूरिः-यद्वा सूत्रे-'समाणे' इति वृद्धवासवासी-वृद्धस्वग्लानस्वादिकारणवशात् स्थिरवासं स्थितः, तथा--इतर:--'वसमाणे नवकल्पविहारी । तत्राऽष्ट कल्पाः ऋतुबद्धकालसंबद्धाः, नवमः कल्यो वर्षाकालः, तत्र विहारी नवकल्पविहारी । गमनं द्विविध-द्विप्रकारकमुक्तं- कथितम्-एकं निष्कारणम् १, अपरं-सकारणम् २ । कारणविशेषमाश्रित्य जायमानं सकारणम् , कारणमन्तरेण जायमानं निष्कारणम् । तत्र सकारणं गमनं यथाआचार्यप्रभृतीनां वैयावृत्त्यनिमित्तं भिक्षानिमित्तं वा गमनम् । एवं-निष्कारणमेव प्रामानुग्रामं गमनम्, अकाले वा भिक्षार्थ गमनम् । तत्र इमे वक्ष्यमाणाः भूयांसो दोषा भवन्ति, तथाहि-कदाचिन्मार्गोऽशोभनो भवेत् , भिक्षा वसतिरपि न सुलभा भवति, स्वपक्षपरपक्षेभ्योऽपमानं भवति, भिक्षार्थ निषिद्धगृहे गच्छतः शास्त्रस्य-जिनप्रवचनस्य निन्दा भवति, पृथिवीकायिकादीनां जीवानां विराधना भवति। एवं निष्कारणं गच्छता षड्जीवनिकायानां विराधना क्रियते-इति संयमविराधना भवति । कण्टयादिद्वारा पादे क्षतिर्भवतीत्यात्मविराधनाऽपि । सागारिकभयात् प्रमादेन वा परिश्रान्त उपधीनां प्रतिलेखनं न करोति, उपधीनां हरणं वा भवति । एवं भिक्षाकालातिक्रमणे ग्रामं प्राप्तस्तत्राऽनेषणीयमप्याहारं प्रहिष्यति । हिंस्रजन्तुना खादितः आत्मविराधनं प्राप्स्यति । एवं-समयातिक्रमे भिक्षार्थ गच्छतः पश्चात्कर्मदोषा अपि भवेयुः । इत्येते अकारणगमने दोषा आपद्यन्ते इति । सकारणं गमनं द्विविधम्-निर्व्याघाते व्याघाते च गमनम् । तत्र-निर्व्याघातगमनम्-ऋतुबद्धकरुपे बर्षाकल्पे वा समाप्ते क्षेत्रात् क्षेत्रान्तरगमनम् । तत्र द्वयोः कालयोर्मध्ये एकतरस्मिन्नपि काले मासकल्पप्रायोग्यानि क्षेत्राणि यो लक्ष्यति स प्रायश्चित्तभाक् । सम्प्रति व्याघातेन मासकल्पप्रायोग्यं क्षेत्रान्तरं संक्रामति, तत्र-व्याघातकारणमाह-अशिवादिगृहीतं क्षेत्रम् , तत्र स्वाध्यायादिकं सम्यक् न भवति, उपधिर्वा तत्र न प्राप्यते, आचार्यादिप्रायोग्यं वा नास्ति । एतादृशे कारणे व्याघातगमनं भवति । कारणविशेषमाश्रित्यैकस्मात् क्षेत्रात् क्षेत्रान्तरं गच्छतो दोषो न भवति यस्मात् स तीर्थकराज्ञां नातिक्रामतीति । अत्र सकारणानामधिकारः । निष्कारणं गच्छतां तु दोषो भवत्येव । एवं पूर्वोक्तप्रकारेण विहारं कुर्वतां संस्तव-इत्थं भवति ॥ सू० ३९॥ पुनराह भाष्यकारः --- भाष्यम्- कुलसंथवो य तेसिं, गिहत्थधम्मे तहेव सामण्णे । पुण एक्केको दुविहो, पुव्वं पच्छा य णायव्वो ॥ छाया–कुलसंस्तवश्च तेषां गृहस्थधर्मे तथैव श्रामण्ये । पुनरेकैको द्विविधः पूर्व पश्चाच्च ज्ञातव्यः ॥ अवचूरिः-'कुलसंथवो' इत्यादि । तेषाम् पूर्वोक्तप्रकारेण विहारं कुर्वतां भिक्षणां संस्तवः द्विविधो-द्विप्रकारको भवति । तत्र-संस्तवो नाम परिचयः, स च द्विधा भवति-गृहि For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy