SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra દ્ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषत उपानद्धारणे दोषान् दर्शयति- 'गव्बो' इत्यादि । भाष्यम् – गव्वो निम्मद्दवया, निप्येक्खो य णिद्दय - निरंतरया । भूयाणं उवघाओ, कसिणे चम्मम्मि छद्दोसा ॥ निशोधसूत्रे छाया - गव निर्मार्दवता निरपेक्षो निर्दय-निरन्तरता । भूतानामुपघातः कृत्स्ने चर्मणि षड् दोषाः ॥ अवचूरि : -- गर्वः - उपानहा संनद्धचरणः पुरुषोऽश्वादावारूढः पादचारिणं पुरुषमिवानुपानहमनादृत्य स्वस्मिन् गर्व धारयति - यदहमेतेभ्यो गरीयान् उपानद्भयां चलामि, एते रङ्का उपानद्विहीनाः, इत्थमुपानद्धीनं पुरुषं विलोक्य सर्वदैव गर्वयुक्तो भवति १ । निर्मार्दवता - उपानद्रहतचरणाभ्यां संचलन् चरणस्य मृदुत्वेन न तथा जीवोपघाताय भवति यथा उपानद्भयां संनद्धचरणा मार्दवराहित्येन कठिना अधिकभाराक्रान्ता जीवोपघाताय भवन्ति । एतावता गर्यो निर्मार्दत्वं च व्याख्यातम् २ | निरपेक्ष इति यस्य चरणे - उपानहौ न स्तः स मार्ग विलोक्य व्रजति, अन्यथा चलने मम चरणे कण्टकादिवेधः स्यात्, इति कण्टकवेधभयात् सोपयोग चलति, चलन् जीवोपरि उपयोगं ददत् जीवस रक्षति । यदा तूपानद्भ्यामाच्छादितचरणो व्रजति तदा निरपेक्षतया चलन् निरपायत्वादात्मनः कण्टकादिकमुपेक्षमाणो जीवेष्वप्युपेक्षां करोति ३ | 'निद्दयनिरंतरया' इत्येकपदत्वात् 'ता' इत्यस्य द्वयोरपि सम्बन्धः तेन निर्दय इति निर्दयता । भादौ यदाऽऽत्मनो मनसि निर्दयत्वं कृतं भवति तदा चरणयोरुपानहौ घरति एवंप्रकारेण स्वभावतो दयालुरपि पुरुषः कठोरो भवति, इति दयापरस्यापि तस्य निर्दयता समागच्छति, इत्थं निर्दयत्वं भवति । For Private and Personal Use Only निरन्तरता - उपानत्संनद्धपादेन षड्जीवनिकायानां विनाशस्याऽवश्यम्भावात् निरन्तरता पापबन्धस्य नैरन्तर्यात्, इति । शुद्धेन चरणेन यदा भूमौ चलति तदा भूतानां विराधनं न भवति । उपानद्वेष्टितचरणतलगतो जीवः कदापि न जीवति कठिनत्वात्, अतिभारत्यात्, अवकाशाऽभावाच्चेति ५ । भूतोपघातश्चेति-स्वभावतो दुर्बलदेहानां कोमलाऽवयवानां भूमौ चलतां लघुजीवानां सोपानत्कचरणैरुपघातो भवत्येव इति षष्ठो भूतोपघातदोषोऽप्यवश्यम्भावी ६ । यत इमे दोषा उपानद्धारणे ततो भिक्षुभिरुपानद्धारणं नैव कर्त्तव्यमिति विवेकः ॥ सू० २२ ॥ सूत्रम् — जे भिक्खू कसिणाणि वत्थाई धरेइ धरेंतं वा साइज्जइ ॥ छाया -यो भिक्षुः कृत्स्नानि वस्त्राणि धरति धरन्तं वा स्वदते ॥ सू० २३ ।। घूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'कसिणाणि वत्थाई' कृत्स्नानि बाण, तत्र - प्रमाणादधिकानि बस्नाणि कृत्स्नवस्त्राणि 'घरेई' धरति कृत्स्नवस्त्राणामुपभोगं
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy