SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावरित उ० २ ० २४ भभिन्नवस्त्रधारणनिषेधः ४७ करोतीत्यर्थः। 'धरेत वा साइज्जइ' धरन्तं वा स्वदते । यो हि भिक्षुः प्रमाणातिरिक्तवत्राणां धारणं करोति, कारयति, कुर्वन्तं वाऽन्यमनुमोदते स प्रायश्चित्तभाग भवतीति ॥ सू० २३ ॥ भाष्यम् कसिणं दच खेत्ते य, काले भावे चउन्विहं । दुविहं दव्वकसिणं, सयलं च पमाणगं ॥ छाया-कृत्स्नं द्रव्ये क्षेत्रे च काले भावे चतुर्विधम् । द्विविधं द्रव्यकृत्स्नं सकलं व प्रमाणकम् ॥ अवचूरिः-'कसिणं' इत्यादि। प्रकृतसूत्रघटककृत्स्नं चतुर्विधम् चतुष्प्रकारकं भवति । प्रथमं द्रव्ये-दव्यकृत्स्नम् १, द्वितीय क्षेत्रे-क्षेत्रकृत्स्नम् २, तृतीयं काले-कालकृत्स्नम् ३, तथा चतुथे भावे-भावकृत्स्नम् ४। तत्र चतुष्प्रकारककृत्स्नेषु मध्ये द्रव्यकृत्स्नं द्विविधम् द्विप्रकारकं भवतिसकलकृत्स्नम् , प्रमाणकृत्स्नं च । तत्र-सकलकृत्स्नं नाम यद्वस्त्रं धनं-तन्तुभिर्यनिष्ठं चिक्कणम्अतिकोमलम् , तथा-अखण्डितं पूर्व तन्मध्यान्न केनापि गृहीतं परिपूर्णमित्यर्थः, एतादृशं सदशिक 'थान-ताका' इत्यादिरूपेणाऽखण्डं यद्वस्त्रं तत्सकलकृत्स्नमिति कथ्यते । एतच्च सर्वोत्कृष्टत्वान्न ग्राह्यम् । एतादृशानि सकलकृत्स्नानि वस्त्राणि गृहस्थेभ्यः खण्डयित्वाऽऽनीतानि जघन्यमध्यमो. स्कृष्टरूपाणि मुखवस्त्रिकाचोलपट्टकप्रावरणादीनि साधुना न धारणीयानीति भावः । अथ प्रमाणकृत्स्नमाह-यद्वस्त्रम्-आयामतो द्विसप्ततिहस्तमितं, विस्तारतश्चतुर्विशत्यङ्गुलकहस्तप्रमाणकम् , निम्रन्थीनां षण्णवतिहस्तप्रमाणम् प्रमाणकृत्स्नमिति कथ्यते, तन्न धारणीयं न च प्राथमिति ॥ सू० २३ ॥ सम्प्रति-क्षेत्रकृत्स्नं प्रदर्शयति- 'जं वत्थं' इत्यादि । भाष्यम्-जं वत्यं जत्य देसे उ, दुल्लहं बहुमोल्लग । ___कसिणं खेत्तजुत्तं तं, जहन्नुक्कोसमझिमं ॥ छाया-यस्त्र यत्र देशे तु, दुर्लभं बहुमूल्यकम् । कृत्स्नं क्षेत्रयुक्तं तद् जघन्योत्कृष्टमध्यमम् ॥ अवचरिः-यद् वस्त्रं कार्पासादिकं यत्र-यस्मिन् देशे मगधादौ दुर्लभं प्रात्ययोग्यं महर्षितं च, तद्वस्त्रं तेन क्षेत्रेण--देशादिना युक्तं क्षेत्रकृत्स्नमिति कथ्यते । यथा-हस्तकत्तितकार्पासिकसूत्रनिर्मितं वस्त्रं संप्रति 'खद्दर' इति लोकप्रसिद्धम्-उत्तरविहारदेशेऽतिसुलभम् अल्पमूल्यसायं च, तदेव वस्त्रं गुर्जरद्रविडादौ देशे दुर्लभं भवति तत्क्षेत्रकृत्स्नमिति कथ्यते । तदपि बहुमूल्यं सत्न कल्पते । तदपि क्षेत्रकृत्स्नं वस्त्रं त्रिप्रकारकम् जघन्य-मध्यमो-कृष्टभेदात् , इति । एवं यद्वस्त्रे यस्मिन् काले महर्षितं दुर्लभं च तद्वत्रं तस्मिन् काले कालकृत्स्नं भवति । एतदपि जघन्यादिभेदात् त्रिविधं बहुमूल्यं न कल्पते इति विवेकः ॥ सू० २३ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy