SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावेचूरिः उ० २ सू० २३ कृत्स्नवस्त्रधारणनिषेधः ४५ छाया--कृत्स्नं चतुर्धा प्रोक्तं, सकलादिप्रमेदतः । चतुर्षिधस्य चर्मणो धारणं नैव कल्पते ॥ अवचूरिः- 'कसिण' इत्यादि । कृत्स्नं चतुर्धा-चतुष्प्रकारकं प्रोक्तं भवति सकलादिप्रभेदतः, तद्यथा -सकलकृत्स्नम्-१, प्रमाणकृत्स्नम् २, वर्णकृत्स्नम् ३, बन्धनकृत्स्नं ४ च । एतत् चतुर्विधं कृत्स्नं भवति । एतच्चतुर्विधस्य-चतुष्प्रकारकस्याऽपि कृत्स्नस्य चर्मणो धारणं भिक्षणां न कल्पते ॥ सू० २२॥ भाष्यम् -- एगपुड सयलकसिणं १, पमाणकसिणं २ च होइ दुपुडाई । कोसग-खल्लग-वगुरी-खवुसा-जंघ-दजंघा य ॥ किसणाइपंचवण्णगयम्मेणं निम्मियं च वण्णकसिणं ३। बंधणकसिणं जमिहा, बंधणतिगओ परं चउत्थाई ४ ॥ छाया-एकपुटं सकलं कृत्स्नं, प्रमाणकृत्स्नं च भवति द्विपुटादिकं । कोशक-खल्लक-वागुरी-खपुसा-जा-ऽर्द्धजजा च ॥ कृष्णादिपञ्चवर्णकचर्मणा निर्मितं च वर्णकृत्स्नम् । बन्धनकृ'स्नं यदिह बन्धनत्रिकतः परं चतुर्थादि ॥ अवचूरिः-'एगपुड' इत्यादि । तत्रैकपुटम्-एकतलमखण्डितं सकलकृत्स्नं भवति १॥ द्विपुटादिकं-द्वयादितलादिकम् यत्रोपानहादौ तत्प्रमाणकृत्स्नं भवति । अस्यैव प्रमाणकृत्स्नस्य मेदानाह-तद्यथा-कोशक-खल्लक-वागुरी-खपुसा जवाऽर्द्धजङ्घाप्रभृतिका लोके व्यवहियमाणा भेदाः, तत्र-कोशकं-चर्ममयं (कोथलो-थैली) इतिप्रसिद्धम् , यस्मिन् प्रवेशित चरणाङ्गुलिनखो मार्गे संचलतो न भज्यते-न भिद्यते तत् , सा च चर्ममयी कुत्थलिका १। खल्लकम् - अत्र पुनर्ती भेदो-अर्द्धखल्लक, सर्वखल्लकं च। तत्र-तलप्रतिबद्धं यावखल्लकैरनुस्यूतं यत्रोपानहि साऽर्द्धखल्लकोपानत् , या च-समस्तमेव चरणमाच्छादयति सा सर्वखल्लकोपानत् २ । या च पुनरङ्गुली छादयित्वा चरणावुपरि छादयेत् सा वागुरी वागुरा वा ३। खपुसा सा या जानु पिदधाति-छादयति ४। या जचापर्यन्तमाच्छादयति सा जवा समस्तजङ्केति यावत् ५। जवाया अर्द्धभागमेव याऽऽच्छायेत्साऽर्द्धजङ्घोपानत् ६ । इति प्रमाणकृत्स्नमिति द्वितीयो भेदः २। ॥१॥ सम्प्रति भाष्यगततृतीयभेदमाह-'किसणाई' इत्या दि, यत् पुनश्चर्म वर्णेन कृष्णादिना शोभा पुष्णाति तत् वर्णकृत्स्नम् , तच्च वर्णकृत्स्नं चर्म कृष्णादिवर्णेन पञ्चविधं भवति, वर्णस्य पञ्चविध. स्वात् ३। बन्धत्रयात्परं चतुर्थादिबन्धनयुक्तं यत् तद् बन्धनकृत्स्नं भवतीति चतुथों भेदः ४। इत्थं सकलचर्मनिर्मितोपकरणानामुपानहादीनां च धारणं साधूनां न कल्पते इति दिग्दर्शनम् ।। सू० २२ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy