________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
निशीथसूत्रे
हस्तपादाद्यवयवानामेकवारं प्रक्षालन जलेन कुर्यादित्यर्थः ।
वा' उच्छोलेत् - प्रक्षालयेत्,
'पधोवेज्ज वा' प्रधावेद्वा - वारंवारं हरतादीनां प्रक्षालनं कुर्यादित्यर्थः
'उच्छोलेंतं वा पधोवेंतं वा साइज्जइ' उछोलन्तं वा प्रधावन्तं वा प्रक्षालयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागिति ॥ सू० २१ ॥
भाष्यम् - उच्छोलणं च दुबिह, देसओ सव्वओ तहा । जहासत्थं च णायव्वा, तस्स भेया जहक्कसं
छाया - उच्छोलनं च द्विविधं देशतः सर्वतस्तथा । यथाशास्त्रं च ज्ञातव्यास्तस्य मेदा यथाक्रमम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
--
अवचूरि :- -'उच्छोलणं' इत्यादि । उच्छोलनम् - प्रक्षालनम्, तद् द्विविधं द्विप्रकारकं भवति । तद्यथा-देशतो- देशविषयकम् । तथा - सर्वतः - सर्वविषयकम् । तस्य देशादिप्रक्षालनस्य भेदप्रभेदाः यथाशास्त्रं - सर्वज्ञ प्रतिपादितशास्त्रात्, यथाक्रमं क्रमेण ज्ञातव्याः । तथाहि - प्रथमतः 'उच्छोलनं' प्रक्षालनं द्विविधम्-देशतः सर्वतश्च । तत्र - पुनर्देशविषयकं द्विविधम्- आचीर्णमनाचीर्ण च । तत्र ज्ञातजिनागमश्रमणैराचर्यते यत् तत् आचीर्णम् । एतद्विपरीतमनाचीर्णम् । पुनश्चाऽऽचीर्णं देशप्रक्षालनं कारणाद्भवति निष्कारणाद्वा । यत्पुनः कारणे सति भवति तत्पुनर्द्विविधम्, यथा-अशनादिना लेपकद्रव्येण हस्तमात्रं लिप्तम्, तत्प्रक्षालने यदि मणिबन्धतः प्रक्षालयति । एतत्सकारणकं देशप्रक्षालनम् । यदि वा - यावन्मात्रं शरीरावयवरूपं हस्तपादादिकमशुचिद्रव्येण लिप्तं भवति तावन्मात्रमेव प्रक्षालयति । एतदपि सकारणकं देशप्रक्षालनम् । निष्कारणं तु - एतश्पिरीतम्, यथा- अशुचिद्रव्येण चरणमात्रं लिप्तम् किन्तु - प्रक्षालनं तु संपूर्णस्य शरीरस्य करोति । तत्राऽधिकदेशस्य प्रक्षालनमकारणमेव । प्रक्षालयितव्यदेशादधिकदेशप्रक्षालनस्य निष्प्रयोजनत्वादेतद् अनाचीर्णमिति ॥ सू० २१ ॥
सूत्रम् — जे भिक्खू कसिणाणि चम्माई धरेइ घरेंतं वा साइज्जइ ॥
छाया -यो भिक्षुः कृत्स्नानि चर्माणि धरति घरन्तं वा स्वदते ।। सू० २२ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'कसिणाणि' कृत्स्नानि संपूर्णानि अखण्डानीत्यर्थः 'चम्माई' चर्माणि मृगादीनाम् 'घरेइ' धरति - पार्श्वे स्थापयति, उपयोगे आनयति वा, 'घरेंतं वा साइज्जइ' घरन्तं - पार्श्वे स्थापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागभवति ॥ सू० २२ ॥
भाष्यम् - कसिणं चउहा वुत्तं, सथलाइपभेयओ । चव्विस्स चम्मस्स, धारणं नेव कप्पर ॥
For Private and Personal Use Only