________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Yo
लिपिक छाया--यो भिक्षुः सौत्रिकं पा रज्जकं वा चिलमिलि स्वयमेव करोति कुतं वा स्वदते ॥ सू० १३ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः श्रमणी वा सौत्रिकी कार्पाससूत्रोर्णासूत्रसम्पादितां वा, रज्जुकां वा कार्यासादिसूत्रनिर्मितदवरिकासंपादितजालिकासम्पन्नां वा चिलिमिली आच्छादनपटरूपां स्वयं करोति अन्यद्वारा वा कारयति कुर्वन्तं वाऽन्यं श्रमणमनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १३ ॥
सूत्रम्-जे भिक्खू सूईए उत्तरकरणं सयमेव करेइ करेंतं वा साइज्जइ॥ छाया-यो भिक्षुः सूच्या उत्तरकरण स्वयमेव करोति कुर्वन्तं वा स्वदते ॥सू०१४॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः श्रमणी वा 'सईए' सूच्याः उत्तरकरणं, तत् पञ्चविधं भवति, तथाहि-छिद्रवर्धनम् १, श्लक्षणकरणम् २, तीक्ष्णकरणम् ३, लोहकारशालायां गत्वा तापनम् ४, ऋजुकरणं ५ चेति । एतत् पञ्चविधमप्युत्तरकरणं सूच्याः स्वयं साधुः साध्वी वा करोति कुर्वन्तं वाऽन्यं श्रमणमनुमोदते स दोषभाग् भवतीति ॥ सू० १४ ॥
सूत्रम्-एवं पिप्पलगस्स उत्तरकरणम् ॥ मू०१५॥णहच्छेयणगस्स उत्तरकरणम् ॥ सू० १६ ॥ कण्णसोहणगस्स उत्तरकरणम् ॥ सू०१७॥
छाया-एवं पिप्पलकस्योत्तरकरणम् ॥ सू० १५ ॥ नखच्छेदनकस्योत्तरकरणम् ॥सू० १६॥ कर्णशोधनकस्योचरकरणम् ॥ सू० १७॥
चूर्णी-चिलिमिलिकामारभ्य कर्णशोधनकार्यन्तं पञ्चसूत्री प्रथमोदेशे कथिता अत्र पुनः सैव कथ्यते, तत्र को हेतुरिति चेत् अत्रोच्यते-तत्राऽन्यतीर्थिकद्वारा गृहस्थद्वारा वा करणं कारणं कुर्वतोऽ. नुमोदनं च निषिद्धम् , अत्र तु-स्वयं करणं कुर्वतोऽनुमोदनं च निषिध्यते । एतावान् भेदोऽतो न पुनरुक्तिः व्याख्या सुगमा ॥ सू० १७॥
सूत्रम्-जे भिक्खू लहुस्सगं फरुसं वयइ वयंतं वा साइज्जइ ॥ १८॥ छाया-यो भिक्षुः लघुस्वकं परुषं वदति वदन्तं वा स्वदते ॥ सू०१८ ॥
चूी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'लहुस्सगं फरसं' लघुस्वक परुषम् ईषदपि कठोरं वचनम् 'बयई' वदति 'वयंत वा साइजई' वदन्तं वा स्वदतेऽनुमोदने स स्नेहवर्जितकठोरवचनवक्ता प्रायश्चित्तभाग भाषासमिति विराधयति ॥ सू० १८ ॥ भाष्यम्-फरुसं चउहा णेयं, दवे खेत्ते य कालगे।
भावे जहक्कम वोच्छं, जहासत्यं वियारियं ॥ छाया--परुषं चतुर्धा शेयं, द्रव्वे क्षेत्रे च कालके ॥
भावे यथाक्रमं वक्ष्ये, यथाशास्त्र विचारितम् ॥
For Private and Personal Use Only