SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्णिभाष्याषचूरिः उ० २ सू० ११-१८ उदकवीणिका-शिक्यकादिप्रकरणम् ३९ 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदतेऽनुमोदते कायेन-वाचा-मनसा वा प्रशंसति, स आज्ञाभङ्गादिकान दोषान प्राप्नोति । विस्तारः प्रथमोद्देशे ॥ सू० ११॥ सूत्रम्---जे भिक्खू सिक्कगं वा सिक्कगणंतगंवा सयमेव करेइ करें। वा साइज्जइ ।। सू० १२॥ ___ छाया-यो भिक्षुः शिफ्यकं वा शिक्यकान्तकं वा स्वयमेव करोति कुर्वन्तं वा स्वदते ॥ सू० १२ ॥ चूणी-'जे भिक्ख' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'सिक्कगं वा' शिक्य वा आहारपात्रादिस्थापनार्थ वियति कीलकादौ यदवलम्ब्यते तत् शिक्यकं प्रोच्यते 'छींका' इति लोकप्रसिद्धम् । 'सिक्कगणंतगं वा' शिक्यकाच्छादनक-शिक्यकपिधानकमित्यर्थः । 'सयमेव करेइ' स्वयमेव करोति, मुञ्जकादिमयं शिक्यकं संपादयति, 'करेंत वा साइज्जई' कुर्वन्तं वाऽन्यं स्वदतेऽनुमोदते स आज्ञाभङ्गादिकान् दोषानाप्नोति ।। सू० १२ ॥ अत्राह भाष्यकार:-'सिक्कगं' इत्यादि । भाष्यम्-सिक्कगं दुविहं वुत्तं, तस-थावर-देहजं । अंडजाइतसाज्जायं, थावरे मुंजगाइंग ॥ छाया-शिक्यक द्विविधम् उक्तं, प्रसस्थावरदेहजम् । ___ अण्डजादित्रसाज्जातं स्थावरे मुञ्जकादिकम् ॥ अवचूरिः--शिक्यकं द्विविध-द्विप्रकारकं प्रोक्तं कथितम् त्रसस्थावरदेहजम् त्रसदेहाज्जायमानम् , तथा स्थावरजीवस्य देहाज्जायमानम् । प्रथमभेदमाह-तत्राऽण्डजादित्रसाज्जातम् , अर्थात्-अण्डजदेहाज्जातम् , तत्र-अण्डजा हंसादयस्तेषां लोमभ्यो जायमानम् , एवमुष्ट्रदेहात् , तथा-कीटदेहात्-'कीटज-रेशम' इतिलोकप्रसिद्धात् जायमानम् एतत्सर्व सजीवदेहविनिर्मितं शिक्यकं भवति । इति प्रथमो भेदः । अथ द्वितीयभेदमाह - स्थावरदेहजं तु-कार्पासजनितम् , शणजनितम् , नारिकेलजनितम्, मुखजनितम् , दर्भजनितम् , वेत्रजनितम् , वेणुजनितं च । ततश्च त्रसस्थावरजीवदेहनिष्पन्नस्य शिक्यकस्य निर्माणेऽवश्यं जीवविराधना स्यात् अतो भिक्षुणा स्वयं शिक्यकं न निर्मातव्यम् , न वा-निर्मातुरनुमोदनं कर्त्तव्यम् । निर्माणेऽनुमोदने वा जीवविराधनासंभवेन संयमव्याघातात् ॥ सूत्रम्-जे भिक्खू सात्तियं वा रज्जुयं वा चिलमिलिं सयमेव करेकरेंतं वा साइज्जइ ॥ सू० १३ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy