SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्णिमाम्बावचूरिः उ०२ सू० १८-१९ परुषवाद-मृषावादनिषेधः ५५ अवचूरिः----'फरुसं' इत्यादि । फरुषं कर्कशं वचनं चतुर्विधम् चतुष्प्रकारकं ज्ञेयं भवतीति ज्ञातव्यम् । द्रव्ये-द्रव्यक्पिये, क्षेत्रे-क्षेत्रविषये च, तथा-काले-कालविषये, तथा-भावेभावविषये, परुषवचनस्यैतेषु विषयेषु चातुर्विध्यं यथाशास्त्रम्-शास्त्रप्रकारमनतिक्रम्य विचारितं तीर्थकरगमरैः कथितं तद् यथाक्रमं वक्ष्ये कथयिष्यामि, इति ॥ सू० १८ ॥ पुनर्भाष्यकारः पूर्वोक्तपरुषस्य द्रव्यादिभेदान् विशदयति--'दव्वे' इत्यादि । भाष्यम्-दम्वे वत्वम्मि पत्तम्मि, खेते संथारयाइसु । काले तीएऽणागए य, भावे कोहाइ संमयं॥ छाया--द्रव्ये वस्त्रे पात्रे क्षेत्रे संस्तारकादिषु । कालेऽतीतेऽनागते च भावे क्रोधादि संमतम् ।। अवचूरि-द्रव्ये-द्रव्यविषये-वस्त्रपात्रादिषु, यद्वा जीवादिषु द्रव्येषु परुषवचनं भवति । तद्यथा-वस्त्र-पात्र-सूच्यादिषु-मात्मन एतान्-अपश्यन् एवं भणति ममैव विद्यते-इति कृत्वा ईर्ष्याभावेन वदति-'ममासने को निद्रा लभते ?' पुनश्च ईर्ष्याभावेन 'मम वस्त्रादि तेन हृतम्' इत्येवं द्रव्यतो लघुस्वकं परुषं भाषते १। क्षेत्रे संस्तारकादिषु, क्षेत्रतः परुषमेवं भवति यथा-कश्चित्साधुः स्वकीयस्य संस्तारशय्यावसतिषु पुरुषान्तरमुपविष्टं दृष्ट्वा वदति- को मम संस्तारादिषु स्थितः स्वकीयं जानानः । अथवास्वकीयासने उपविष्टं कमपि साधुं दृष्ट्वा वदति-कथं मम संस्तारके स्थितोऽसीति २। काले यथा-कमपि साधु बहिर्गन्तुमनसमुत्तिष्ठन्तं ब्रवीति-नेदानी गमनस्य कालो विद्यते केन मूर्खेण कथितं यत्-इदानी गमनकालः | यद्वा-गमनकाले उपस्थिते दुर्बोधा एते साधवः इदानीमपि विलम्बन्ते इति । यद्वा-यस्य स्वाध्यायादेर्यः कालस्तस्मिन् कश्चित् स्वाध्यायादिकं कर्तुं व्यवसितः, तं प्रति वदति-नेदानी कालो विद्यते स्वाध्यायस्य, तत्र यदि कश्चित्किञ्चिदुत्तरं ददाति तदा भोः अभिमानिन् ! कि निरर्थकं वदसि !, इति परुषं ब्रते । अथवा-आचार्येण पूर्वमादिष्टे औषधानयने अन्यस्तत्र गन्तुकामं साधुं पृच्छति-यत् त्वं गच्छसि मौषधमानेतुम् ?, स पृष्टः साधुः परुषाक्षरं ब्रूते-नेदानीमौषधानयनकालो विद्यते धैर्य धारय, कथमेवं त्वरां कुरुषे ।। यद्वा-कश्चित्साधुर्वस्त्रपात्रादिकमानेतुं गुरुणाऽऽज्ञप्तः तेनाऽऽनीतं वस्त्रपात्रादिकम् , तद्दृष्ट्वा-ईर्ष्यालुरन्यो वदति- केनैतदानीतम् ! स वदति-मयाऽऽनीतम् । तत् श्रुत्वा-ईर्ष्यालुनाऽनादरं कुर्वतोक्तम्भोः किमर्थं त्वमानेष्यसि, नायं कालो वस्त्राधानयनस्य स्वं तु काष्ठपाषाणवज्जडो लब्धिरहितश्च । एवं प्रकारेण कालविषये परुषं वदति-इति ३ । भावे, परुषं क्रोधादिकम् , यतः क्रोधलोभादिमन्तरेण द्रव्यादिष्वपि परुषं न संभवति, क्रोधादिमूलकतयैव सर्वत्र परुषवचनस्य संभवः । For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy