________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीयसूत्रे
भाष्यम्-वत्थं पंचविहं वुत्तं, जंगमाइपभेयर्ग । जहासत्थं च तन्भेओ, णायव्यो हियबुद्धिहि । छाया-वस्त्रं पञ्चविधमुक्तं जंगमादिप्रमेदकम् । यथाशास्त्रं च तद्भेदो ज्ञातव्यो हितबुद्धिभिः ॥ अवचूरिः--वस्त्रं पञ्चविधं पञ्चप्रकारकं भवति, जंगमादिभेदात् , पंच प्रकाराः वस्त्रस्य भवन्तिजंगिए,भंगिए, साणए, पत्तिए, तिरीडपट्टए" जगमम् १, भङ्गिकम् २ शाणकम् ३ पत्रकम् ४ तिरोडपट्टकम् ५, तत्र-जङ्गमम्-अजमेषलोमनिर्मितं कम्बलादि, उपलक्षणात्कार्पासिकम् १, भङ्गिकम्अतसीनिर्मितं कृमिजं वा २, शाणकम्-शणसूत्रमयम् ३, पत्रकम्-तालपत्रनिर्मितम् ४, तिरीडपट्टकम्-तिरोडवृक्षत्वग्भिनिर्मितम् ५। एतेषु पञ्चविधेषु वस्त्रेषु-उत्सर्गमार्गेण वस्त्रद्वयं कल्पते, ऊर्णामयं, कासिकं च, तत्र एकमूर्णामयं, प्रावरणद्वयं कार्पासिकं च । अपवादमार्गेण द्विविधवस्त्रयोरलाभेऽन्यदपि वस्त्रं कल्पते । इत्थं सुबुद्धिभिर्यथाशास्त्रं भेदो ज्ञातव्यः ॥ सु० ४९॥
अथापवादमाह-'जे भिक्खू' इत्यादि ।
सूत्रम्-जे भिक्खू वत्थस्स परं तिण्हं पडियाणियं देइ देयंत वा साइज्जइ ॥ सू० ५०॥
छाया-यो भिक्षुर्वस्त्रस्य परं प्रयाणां प्रत्यनीकं ददाति ददतं वा स्वदते ॥सू०५०॥
चूर्णी - 'जे भिक्खू' यो भिक्षुः 'वत्यस्स' वस्त्रस्य प्रावरणचोलपट्टकादिरूपस्य 'परं तिण्हं' परं त्रयाणाम्, त्रयाणां थिग्गलानां परतश्चतुर्थादिकम् , प्रत्यनीकं अन्यजातीयवस्त्रथिग्गलम् , 'देइ' ददाति दापयति, 'देयंत वा साइज्जइ' ददतं वा स्वदतेऽनुमोदतेस प्रायश्चित्तभार भवतीति । सू० ५०॥
अत्राह भाष्यकार:– 'कारणे' इत्यादि । भाष्यम् - कारणे थिग्गलं सत्ये, तियमेयमुदाहियं । तओ य परतो देइ, आणाभंगाइया मया ॥ छाया-कारणे थिग्गलं शास्त्रे त्रयमेतदुदाहृतम् । ततश्च परतो ददाति आशाभंगादिका मताः ॥
अवचूरिः-कारणे-कारणविशेषे सति, यावत्-एक-द्विकं त्रयं वा थिग्गलं घस्त्रोपरि देयम् , एतत् शास्त्रे एवोदाहृतम्-कथितम् । कारणे सति यावत् थिग्गलत्रयं तावदेयम् , ततश्च परतो ददतः ततः परं त्रिथिग्गलात्परं चतुर्थादि थिग्गलं वस्त्रोपरि ददतः श्रमणस्य- आज्ञाभगादिका दोषा मता भवेयुरित्यर्थः ।। सू० ५०॥
For Private and Personal Use Only